"स्तोत्ररत्नम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
'''नलन्तिगழ் नारायणजीयर्''' इति प्रसिद्धैः नारायणमुनिभिपि काचिद् व्याख्या कृतेति आचार्यैः वेदान्तदेशिकैः रहस्यरक्षायां कृतात् अस्या व्याख्यायाः ग्रन्थलेशोदाहरणात् ज्ञायते । श्रीसुदर्शनसूरिभिः श्रुतप्रकाशिकाचार्यैः स्तोत्ररत्नव्याख्या काचित् कृतेति श्रीभाष्यप्रकाशिकाभूमिकायां प्रतिपादितम् । किन्तु इयं नोपलभ्यते । अर्वाञ्चोपि केचिदमुं ग्रन्थं व्याचख्युः । वडपल्ली पद्मनाभाचार्यैः काचन लघ्वी स्तोत्ररत्नव्याख्या Government manuscript Library, Madras R. 2155 इत्यत्र उपलभ्यते । अन्योऽपि कश्चन स्तोत्ररत्नभाष्यसंग्रहः इति ग्रन्थः अस्ति D 10462 संख्यायां यत्र मूलस्य अतिसंक्षेपणार्थः उच्यते । अयञ्च रामानुजसुधीः इति नामभिः आरचित इति ज्ञायते । तिरुवहीन्द्रपुरम्. पण्डितभूषणम्---- भगवद्विषयम्. महामहोपाध्याय चेट्टलूर्. नरसिंहाचार्यैः द्राविडविवरणं स्तोत्रभाष्यस्य कृतं प्रकाशितं च बहोः कालात् पूर्वम् । प्रतिवादिभयङ्करम्. अण्णङ्गराचार्यैः द्राविडतात्पर्यचर्चादिविशिष्टं व्याख्यानं कृतमस्ति । अभिनवदेशिक. उत्तमूर्. ति. वीरराघवाचार्यैरपि द्राविडतात्पर्यसहितं स्तोत्रमेतत् प्रकाशितम् ।<br />
भगवद्रामानुजाचार्याणां चरिते श्रूयते यत् – ते यदा यादवप्रकाशानां सकाशात् सामान्यशास्त्राणि अधीयानाः आसन् तदा यामुनाचार्याणाम् शिष्यैः पठ्यमानान् विष्णुपारम्यवाचकान् '''कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः ……..''' इत्यादीन् स्तोत्ररत्नश्लोकान् श्रुत्वा अत्यन्तं प्रभाविताः भूत्वा यामुनाचर्यानां दर्शनकाङ्क्षिणः जाता इति । किन्तु ते जीवितदशायां यामुनाचार्यान् द्रष्टुं नापारयन्नित्येतत् श्रीवैष्ण्वमतानुयायिनां दौर्भाग्यं मन्यते ।
 
[[वर्गः:स्तोत्रसाहित्यम्]]
"https://sa.wikipedia.org/wiki/स्तोत्ररत्नम्" इत्यस्माद् प्रतिप्राप्तम्