"तुलाराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
तुला द्वादश राशिनां मध्ये एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
समत्वस्य सङ्केतरूपः तुलाराशिः । तुलायाः स्थालिकाद्वयम् इव उत्तमानुत्तमायाः निर्णयावसरे तुलाराशिः उत्तमन्यायाधीशवत् कार्यं करोति । विविधेशु अंशेषु सामरस्यानयनावसरे तुलाराशिः उत्तमं सामर्थ्यं प्रदर्शयति । तुलाराशिवताम् अपि अयं समत्वभावः विशेषतया भवति ।
एकाकिन्याः कन्यायाः मनसि यानि तुमुलानि भवन्ति तानि सङ्केतयति अयं राशिः । स्वस्य विद्यया, वर्तनेन, वाचा, केनचित् रूपेण सर्वे यथा आत्मानं पश्येयुः तथा भवति कन्याराशिवतां व्यवहारः । एतेषु प्रतिभाः पाण्डित्यञ्च आधिक्येन विद्यते । तेषां सद्विनियोगः यत्र भवेत् तादृशेषु वाणिज्य-प्रचारादिषु विभागेषु एते कार्यरताः भवन्ति ।
==अधिपतिः==
वृषभ-तुलाराश्योः [[शुक्रः]] अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा [[गुरुः]] । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
मिथुन-कन्याराश्योः [[बुधः]] अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
==राशिभावः==
तुलायाः '''सहजसप्तम'''भावः इति निर्दिश्यते । सर्वविधभागसर्वविधभागविषयाः इत्यादयःतन्नाम अंशाःजीवनसहचरी, षष्ठभावेवाणिज्ये अन्तर्भवन्तिसहभागः, स्नेहितैः कन्याराशिवत्सुसह अपिसहभागः एतेइत्यादयः अंशाः विशेषतयाअत्र दृश्यन्तेद्रष्टव्याः
==स्म्बद्धानि अक्षराणि==
तुलाराशौ चित्तायाः ३,४ पादौ स्वात्याः चत्वारः पादाः, विशाखायाः १,२,३ पादाः च भवन्ति इत्यतः '''रा, री, रू, रे, रो, ता, ती, तू, ते ... ''' इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/तुलाराशिः" इत्यस्माद् प्रतिप्राप्तम्