"पाणिनिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
:इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः ।
:पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥
इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते । स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य "अष्टाध्यायी" इति ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- "ऋतो भारद्वाजस्य"७/२/६३. "लोपः शाकल्यस्य"८/३/१९. "त्रिप्रभृतिषु शाकटायनस्य"८/४/५०. "वा सुप्यापिशलेः"६/१/९२. इत्यादि ।
==तस्मै पाणिनये नमः==
[[पाणिनीया शिक्षा]] ग्रन्थे त्रयः श्लोकाः पाणिनये नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानाम् प्रातः स्मरणीयः मुनिः । नकेवलम् वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानां ऐन्द्र,चान्द्र,आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य ’नवं, समग्रं, विश्वज्नीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशम् परमेश्वरम् तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्ड्वं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत्, तद् ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः -
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्