"राजयोगः" इत्यस्य संस्करणे भेदः

(लघु) added Category:योगः using HotCat
No edit summary
पङ्क्तिः १:
याज्ञवल्क्यस्मृतौ एवम् उल्लिकितमस्ति -
योगोऽयं सर्वेषां योगानां राजा, अतः राजयोग इत्युच्यते । स्मृतिशास्त्रे उक्तमस्ति – राजत्वान् सर्वयोगानां राजयोग इति स्मृतः
:राजत्वान् सर्वयोगानां राजयोगः प्रकीर्तितः - इति । <br />
 
अरण्ये विद्यमानानां सर्वेषामपि प्राणिनां ज्येष्ठः अस्ति सिंहः । अतः एव सः मृगराजः इति निर्दिश्यते । एवं मन्त्रयोग-हठयोग-लययोग इत्यादिनां योगानाम् अपेक्षया प्रमुखतमः अस्ति '''अष्टाङ्कयोगः''' । अतः एव अयं योगराजः, '''राजयोगः''' ।
:राजन्तं दीप्यमानं तं परमात्मानमव्ययं प्रापयेद्देहिनां यस्तु राजयोगस्सकीर्तितः । <br />
स्वयंप्रकाशः सन् सूर्यः इव राराजमानं परमात्मानं प्रापयति अयं योगः इत्यतः राजयोगः इति उक्तम् ।
==चित्तम्==
:'''योगः चित्तवृत्तिनिरोधः''' - पातञ्जलयोगसूत्राणि अ १ श्लो २<br />
चित्तवृत्तेः निरोधः एव योगः । चित्तं नाम किम् ? अस्मिन् पञ्च अंशाः विद्यन्ते -
१ विविधानाम् आलोचनानाम् आश्रयरूपं '''मनः''' (Mind)
२ निश्चयात्मिका '''बुद्धिः''' (Intellect)
३ पूर्वतनान् अनुभवान् आवश्यकतायां सत्यां बहिरानयति '''स्मृतिः''' (Memory)
४ सर्वम् अवगच्छन् शरीरे स्थितः '''पुरुषः'''
५ इदं मम इति सम्बन्धं कल्पयन् '''अहङ्कारः''' (Ego-sense)
एतैः सर्वैः युक्तः अन्तःकरणः एव चित्तम् ।
==चित्तस्य विधाः==
चित्तं जलपूर्णं सरः इव । वातस्य कारणतः, वस्तुनः पतनस्य कारणतः, अधस्तात् बुद्बुदोद्गमनेन च तरङ्गाः उत्पद्यन्ते । एवमेव चित्ते विविधैः कारणैः उत्पद्यमानानि विभिन्नानि रूपाणि एव '''वृत्तिः''' इति निर्दिश्यन्ते ।
१ '''क्षिप्तम्''' - रजोगुणेन आवृत्तं चित्तं सर्वदा विविधैः विषयैः आकृष्टं भूत्वा सदा चाञ्चल्यं प्रदर्शयति ।
२ '''मूढम्''' - तमोगुणेन युक्तं चित्तम् आलस्ययुक्तं सत् म्लानं तिष्ठति ।
३ '''विक्षिप्तचित्तम्''' - सत्त्वगुणेन आवृतं चित्तं किञ्चित्कालं यावत् शान्तं प्रसन्नञ्च तिष्ठति । ततः पुनः अन्यगुणानां प्रभावेण चाञ्चल्यं प्राप्नोति ।
४ '''एकाग्रस्थितिः''' - एकस्मिन्नेव विषये स्थिरा स्थितिः एव 'एकाग्रता' ।
५ '''निरुद्धस्थितिः''' - सर्वाः वृत्तयः यत्र निरुद्धाः सा स्थितिः ।
==विविधाः चित्तवृत्तयः==
===विपर्ययवृत्तिः===
प्रत्यक्ष-अनुमान-शब्द-प्रमाणैः प्राप्यमानं यथार्थज्ञानम् । वस्तु यथा अस्ति तत् तथा अजानन् अन्यथा अवगमनमेव '''विपर्ययवृत्तिः''' ।
===प्रमाणवृत्तिः===
दूरतः रज्जुं दृष्ट्वा सर्पः इति यत् चिन्त्यते सः विपर्ययः । समीपतः परीक्षणानन्तरं इयं रज्जुः इति अवगमनमेव '''प्रमाणवृत्तिः''' ।
===विकल्पवृत्तिः===
'रामस्य धेनुः' इति यदा श्रूयते तदा रामस्य वशे विद्यमानं वस्तु इति भावः उदेति । 'रामस्य चैतन्यम्' इति यदा श्रुण्मः तदा रामात् पृथग्भूतं किञ्चन वस्तु न । चैतन्यं रामस्य स्वरूपमेव विद्यते । एवं पत्येकं वस्तु न चेदपि शब्दैः तथा भावः यथा अवगम्यते सा '''विकल्पवृत्तिः''' ।
===निद्रा===
कस्यापि अनवगमने 'अभाव'स्य अवगमनहेतुः एव '''निद्रावृत्तिः''' ।
===स्मृतिः===
पुरा प्राप्तान् अनुभवान् अभेदेन यत् स्मारयति सा '''स्मृतिवृत्तिः''' ।
एवं सर्वदा चित्ते काचित् वृत्तिः भवति एव । तस्याः वृत्तेः सारूप्यः भवति पुरुषः । (वृत्तिसारूप्यमितरत्र १-४)
सर्वासां वृत्तीनां निरोधः यदा क्रियते तदा पुरुषः स्वस्वरूपे प्रतिष्ठितः भवति । (तदाद्रष्टुः स्वरूपेऽवस्थानम् १-३)
चित्तवृत्तयः द्विधा - '''क्लिष्टा अक्लिष्टा''' च । क्लिष्टा नाम क्लेशयुक्ता इति । क्लेशाः पञ्चधा -
१ '''अविद्या''' - यत् अनित्यं तत् नित्यमिति, या अशुचिः सा शुचिः इति, यत् वस्तुतः दुःखं तत् सुखमिति भ्रान्तिः, यः न आत्मा सः एव आत्मा इति अवगमनम् अविद्या ।
२ '''अस्मिता''' - पुरुषः द्रष्टा, दर्शनमेव अस्य शक्तिः । बुद्धिः (अन्तःकरणम्) तु दर्शनस्य साधनमात्रम् । साधनस्वरूपमेव तदीया शक्तिः । एतत् द्वयम् एकमिति अवगमनमेव अस्मिता ।
३ '''रागः''' - सुख-सुखसाधनयोः विषये इदम् अपेक्षितम् इति इच्छा एव रागः ।
४ '''द्वेषः''' - दुःख-दुःखसाधनयोः विषये इदम् मास्तु इति यः विरोधभावः अस्ति सः एव द्वेषः ।
५ '''अभिनिवेशः''' - कदापि मृतः न भवेयं सर्वदा एवमेव तिष्ठेयम् इति प्रबलः अभिलाषः एव अभिनिवेशः ।
अस्माभिः अनुभूयमानः सर्वे अपि क्लेशाः एताभिः वृत्तिभिः युक्ताः एव भवन्ति ।
एतान् क्लेशान् याः वृत्तयः निवारयेयुः ताः एव '''अक्लिष्टवृत्तयः''' ।
[[वर्गः:योगः]]
"https://sa.wikipedia.org/wiki/राजयोगः" इत्यस्माद् प्रतिप्राप्तम्