"धनूराशिः" इत्यस्य संस्करणे भेदः

(लघु) Shubha moved पृष्ठ धनुः राशिः से धनूराशिः: समस्तपदम्
No edit summary
पङ्क्तिः ५:
धनु-मीनराश्योः अधिपतिः [[गुरुः]] । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनुराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । गभीरपरिशीलनं धनुराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् । <br />
==राशिभावः==
पुरुषजातिः, काञ्चनवर्णः, द्विस्वभावः, क्रूरसंज्ञकः, पित्तप्रकृतिः, दिनवली, पूर्वदिशः स्वामी, दृढशरीरमग्नितत्त्वं, क्षत्रियवर्णः, अल्पसन्ततिः अर्धजलचरराशिः । अस्य प्राकृतिकस्वभावः अधिकारप्रियः, करुणामयः, मर्यादाया इच्छुकश्च वर्तते । अनेन पादस्य सन्धिस्थलानां तथा च जानोः विचारः क्रियते । अस्य स्वामी बृहस्पतिः । यथा चोक्तं –
धनुराशेः '''सहज-नवम'''भावः इति निर्दिश्यते । अध्यात्मज्ञानम्, उपासना, आनन्दमार्गान्वेषणं, भाग्यं, भगवतः कृपा, पूर्वकृतपुण्यं, दूरप्रयाणम्, उन्नतविद्याभ्यासः, कीर्तिः, प्रतिष्ठा - इत्यादयः अंशाः अत्र द्रष्टव्याः ।
:अश्वजंघोत्वथ धनुर्गुरु स्वामी च सात्त्विकः ॥
:पिङ्गलो निशि वीर्याढ्यः पावकः क्षत्रियोद्विपाद ।
:आदावन्ते चतुष्पाच्च समगात्रो धनुर्धरः ॥
:पूर्वस्थो वसुधाचारी तेजवान्पृष्ठतोद्गमी ।
==स्म्बद्धानि अक्षराणि==
धनुराशौ मूलायाः ४ पादाः, पूर्वाषाढायाः ४ पादाः, उत्तराषाढायाः १ पादः च भवन्ति इत्यतः '''ए, यो, बा, बी, बू, धा, भा, डा, बे ... ''' इत्येतानि अक्षराणि धनुराशिसम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/धनूराशिः" इत्यस्माद् प्रतिप्राप्तम्