"विश्व रेड्क्रास दिनम्" इत्यस्य संस्करणे भेदः

प्रतिवर्षं विश्वे मेमासस्य अष्टमे दिने विश्व ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
प्रतिवर्षं विश्वे मेमासस्य अष्टमे दिने विश्व रेड्क्रास् दिनम् आचरन्ति । मानवानां वेदनां पीडां, दुः खं निवारयितुं कृतसङ्कल्पं विश्वसंस्थाविभागः एव अन्ताराष्ट्रिय रेडक्रास् । दुःखमिवारणं, शान्ति स्थापनं च अस्याः संस्थायाः प्रमुखं कार्यमस्ति ।
 
[[Image:Flag of the Red Cross.svg|100px|leftright|border]]
 
१८५९ तमे वर्षे जून मासे जीन् हेन्री डुनाण्ट् इति स्विझरलैण्डदेशस्य एकः वाणिजकः फ्रान्स् देशं आगतवान् । तस्यागमनोद्देश फ्रान्सदेशे तृतीयनेपोलियन्महाभागेन सन्दर्शनम् आसीत् । तदा अस्स्ट्रियन् जनानां फेञ्च सार्डिनियन् जनानां मध्ये युध्दं समाप्तमासीत् । डुनान्ट् महोदयः इटलीदेशस्य साल्नेरिवेन नगरं प्रविष्टवान् । सर्वत्र सैनिकाः क्षतहताः वेदनाम् अनुभवन्तः दृष्टाः स्त्रियः सैनिकानां सेवायां निरताः आसन् । डुनण्ट् महोदयः अपि बहु दुःखितः सैनिकानां सेवां कर्तुं प्रविष्टवान् । सर्वेषां सैनिकानां प्रथमचिकित्सार्थं योग्यं वस्त्रं पूरयितुं सूचितवान् । जलसेवनस्य अनुकूलतां कल्पितवान् । सैनिकानां क्षतानाम् उपचारं कृतवान् । पञ्चवारेषु नगरे स्थितिः उत्तमा सञ्जाता । सैनिकाः व्रणमुक्ताः अभवन् । तदा डुनाण्टो महोदयस्य मनसि “ युध्दं भवति चेत् एतत् दुःखं सामान्यमेव । एतादृशे प्रसङ्गे उपकारकः उपायः चिन्तनीयः । पीडितानां दुःखितानां क्षतहतानां साहाय्याय एका सस्थ अनिवार्यास्ति” । इति चिन्तितवान् । स्वस्य अनुभवं ‘ए मेनोटि आफ साल्छेटिनो” इति पुस्तके प्रकटनं कृतवान् ।
"https://sa.wikipedia.org/wiki/विश्व_रेड्क्रास_दिनम्" इत्यस्माद् प्रतिप्राप्तम्