"क्रिकेट्-क्रीडा" इत्यस्य संस्करणे भेदः

reprocessed the article
पङ्क्तिः ५९:
क्रिकेट्क्रीडायाः कन्दुकः ५ <sup>१</sup>/<sub>२</sub> औसमितभारवान् भवति । वर्तुलता च अस्य ८ <sup>१३</sup>/<sub>१३</sub> इञ्चतः ६ इञ्चावधिका । कन्दुकोपरि चर्मावरणम् आवश्यकम् । अन्तः कठोरतायै किमपि भारवद वस्तु सम्पूर्य तत्स्थाने सुदृढतया सीव्यते ।
[[File:White ball 2.JPG|right|thumb| श्वेतकन्दुकः]]
:#[[==क्रिकेट्क्रीडकाः तेषां नियमाश्च]] ==
{{Main|क्रिकेट्क्रीडकाः तेषां नियमाश्च]}}
[[File:Cricketfieldmswd.png|thumb|160px]]
:'''(क)''' क्रीडकसंख्या दलव्यवस्था च अस्यां क्रीडायां दलद्वय भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णयतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । कन्दुकक्षेपणरेखातः कन्दुकक्षेपकं ‘गैदबाज’ (बौलर्) तथा कन्दुकक्षेपणकार्यं ‘गेंदबाजी’ (बौलिंग) इति कथयन्ति । विकेटस्य रक्षणाय स्थितौ कन्दुकताडकौ काष्ठपट्टिकाधरौ ‘बल्लेबाज’ तयोः क्रियां ‘बल्लेबाजी’ति गदन्ति । अन्ये क्रीडकाः क्षेत्ररक्षका: (फील्डर) भवन्ति ।
 
:'''(ख)''' वस्त्रोपवस्त्रे -प्रत्येकं क्रीडार्थी ग्रीष्मतौ श्वेतपादयामं कञ्चुकं च शीतकाले विशिष्य मणिबन्धान्तमूर्णाकञ्चुकं (स्वटेर)पत्रयोजनं भवति । हस्तप्रच्छादने द्विविधे भवतः । प्रथमे करतलम् आच्छादितं भवति द्वितीये च केवलम् अङ्गुल्योङ्गुष्ठश्च आच्छादिता भवन्ति । पादप्रच्छादने गुल्फपर्यन्तं तूलपूरिते मध्ये च स्वल्पाः काष्ठपत्रिकाः भवन्ति । जानुपर्यन्तम् अनयोः प्रलम्बताऽऽघातवारणाय उचिता मन्यते ।
:
 
:#[[क्रिकेट्क्रीडकाः तेषां नियमाश्च]]
:'''(घ) उपानद्युगलम् (बूट्स्)'''
:#[[क्रिकेट्क्रीडाविधयः नियमाश्च]]
श्वेतवर्णं गुल्फवधिकं तलभागे कीलकजटितं सुदृढं धावने सौविध्यकरम् ऊर्ध्वभागात् सूत्रबद्धम् उपानद्युगलं क्रीडकेन धार्यते ।
:#[[क्रिकेट्सम्बद्धाः केचन विशिष्टा निर्देशाः शब्दाश्च]]
 
:'''(ङ्) क्षेत्रव्यूहरचना'''
क्षेत्ररक्षणाय क्षेत्ररक्षका मुख्यत्वेन भिन्न-भिन्नेषु स्थानेषु स्थित्वा क्षेत्रं रक्षन्ति । तदर्थं तेषां स्थाननाम् निर्धारणम् इत्थं विद्यते -
[[File:Cricketposnsmswd.png|thumb|360px]]
:(१) सिलीमिड आन्
:(२) मिडविकेट्
:(३) मिड-आन्
:(४) लांग-आन्
:(५) स्क्वेयर लैग्
:(६) लैग-स्लिप्
:(७) डीप स्क्वैयर-लैग्
:(८) शार्ट्-लैग्
:(९) लांग -लैग्
:(१०) थर्ड मैन्
:(११) स्लिप्
:(१२) गली पाइण्ट्
:(१३) सिली पाइण्ट्
:(१४) सिली मिड् प्राफ्
:(१५) कवर् पाइण्ट्
:(१६) एक्स्ट्रा कवर्
:(१७) डीप एकस्ट्रा कवर्
:(१८) मिड प्राफ्
:(१९) लांग आफ्
:(२०) विकेट कीपर्
 
कन्दुकताडकस्य वामभागशालिनीं पुरोवर्तिनीं यष्टित्रयीं प्रति ‘आन् साइड’ भवति तस्य दक्षभागशालिनीं पुरोवर्तिनीं यष्टिं प्रति च ‘आफ् साइड्’ भवति । क्षेत्ररक्षका नायकस्यादेशानुसारं स्वस्वस्थानेषु तिष्ठन्ति ।
==क्रीडाविधयः नियमाः==
:#[[{{Main|क्रिकेट्क्रीडाविधयः नियमाश्च]] }}
===(क) क्रीडारम्भः===
पूर्वं द्वावपि दलनायकौ [[क्रीडाङ्गणम्]] आगत्य मुद्रोत्क्षेपणं कुरुतः यत् कस्य दलं प्रथमं क्रीडिष्यतीति ? टास्-विजेतुः दलनेतुः अयम् अधिकारः भवति यत् सः स्वयं क्रीडेत् अथवा विपक्षदलं पूर्वं क्रीडयेत् । निर्णयानन्तरं क्रीडकदलस्य द्वौ ताडकौ क्षेत्रम् आगत्य यष्टित्रय्या निकटम् उपतिष्ठतः । द्वितीयं दलं च तौ क्रमशः क्रीडयतः । यष्टिरक्षकः (विकेट् कीपर) यष्टित्रय्याः पृष्ठे स्थित्वा कन्दुकम् अवरुणद्धि । अन्ये नव क्षेत्ररक्षकाः क्रीडाङ्गणं परितः कन्दुकम् अवरोद्धुं तथा धावन(रन्)संख्यावृद्धेः अवरोधाय तिष्ठन्ति ।
 
===(ख) बहिर्गतत्वम्===
यदि क्रीडयितृदलस्य कन्दुकक्षेपकः (गदबाज) कन्दुकं यष्टित्रय्या सङ्घट्ट्य काष्ठखण्डं पातयति तदा ताडकः बहिर्गतत्वं भजते । यदि ताडकः कन्दुकताडनसमये तम् उच्चैः उच्छालयेत् तथा विपक्षी क्षेत्रारक्षकः तं निगृह्णीयात् तदा स बहिर्गतः भवति । यदि ताडकस्य पादो दक्षयष्टेः समक्षं भवेदथ च क्षेपकेन क्षिप्तः कन्दुकः तस्य वामं पादं स्पृशति तदापि स निर्गतः मन्यते । इयं स्थितिः पदबाधा (‘लैग बिफोर् विकेट्’ LBW) इति कथ्यते । ताडकः कन्दुकं वेगेन सन्ताडय स्वसमक्षस्थ-यष्टित्रय्या निकटे निशिचतायां रेखायां गच्छति तथा समक्षस्थः अन्यः ताडकः तस्य स्थाने निश्चितरेखायाम् आगच्छति तदा एकं धावनं (रन्)भवति । अनयोः एकोऽपि ताडकः रेखायां नोपयाति तथा विपक्षदलस्य कोऽपि क्षेत्ररक्षकः कन्दुकं यष्टिरक्षकस्य निकटे प्रक्षिपदेथ च स हस्ते कन्दुकं नीत्वा काष्ठखण्डं पातेयेत् तदा समक्षस्थस्ताडकः बहिर्गतो भवति । एवमेव अन्येषां विधीनां पालनाभावेऽपि बहिर्गतत्वं क्रियते ।
 
===(ग) कन्दुकक्रीडनम्===
अस्यां क्रीडायां कन्दुको नानाविधिभिः क्रीडयते तस्य च नामान्यपि विभिन्नानि सन्ति । कन्दुकताडकस्य ताडनप्रक्रियायाः मुख्यतः अष्टौ प्रकारा मन्यन्ते । यथा -(१) [[स्ट्रोक्]], (२) [[ड्राइव्]], (३) [[स्क्वेयर् कट्]], (४) डाउन दि गली (५)बैक-कट् अथवा [[लेट- कट्]], (६) लैग -ग्लांस, (७) [[हुक्स्ट्रोक्]] तथा (८) [[पुल् शाट्]] ।
 
:(१) स्ट्रोक्- शब्दस्यार्थो मन्दताडनं विद्यते । केवलं बहिर्गतत्वाय यत् क्रीडयते तत् ‘स्ट्रोक-प्ले’ इति कथ्यते । अस्य (१) अग्रप्रतिरक्षितक्रीडा (फारवर्ड् डिफेन्सिव् प्ले) तथा (२) पार्श्वप्रतिरक्षितक्रीडा (बैकवर्ड् डिफेन्सिव् प्ले ) नामभ्यां द्वौ प्रकारौ स्तः ।
:(२) ड्राइव् शब्दस्य तात्पर्यं कन्दुकस्याग्रे चालनं वर्तते । अस्य (१) आनड्राइव्, (२) स्ट्रेट् ड्राइव्, (३) आफ् ड्राइव् तथा (४) कवर् ड्राइव्-नामकाः चत्वारः प्रकारा भवन्ति येषु कन्दुकताडनं समानमेव क्रियते; परमन्तरमिदमेव भवति यत् ताडनं कस्यां दिशि क्रियत इति । अनेन विधिना सुदृढताडने सति यदा कन्दुकः क्षेत्रस्य परितः कृष्टां रेखामुल्लङ्घयति तदैकं चतुष्कं (चोका) भवति । निर्णायक-निर्धारित सीमोल्लङ्घनेन षट्कं (छक्का) भवति । कदा कस्य विधेः प्रयोगः कर्तव्य इति विषये ताडकस्यैव निर्णयः प्रमाणम् ।
:(३) कन्दुकं ताडनयष्टेर्दक्षभागे स्वल्पताडनेन अपाकुर्वन्ति तत् ‘स्कवेयर् कट्’ इति कथ्यते । (४-८) इत्थमेव वाम -दक्ष-मध्यवीथि-प्रभृतयः ताडनविधयः अन्यासु ताडनप्रक्रियासु अन्तर्भवन्ति ।
 
===(घ) [[विकेट्-रक्षकः]]===
[[File:Cricket wicket keeper.jpg|thumb|]]
अस्य सविधे प्रत्येकं कन्दुक आयाति स च सर्वदैव तं निगृहीतुं यतते । ताडकस्य अग्रे गमनात् परं योऽपि लाभो, प्राप्तुं शक्यते तं गृह्णाति । यष्टित्रयरक्षकस्य इमानि पञ्च ध्यातव्यानि सन्ति
:(१) तीव्रकन्दुकावसरे यष्टित्रय्या रक्षणम् ।
:(२) मन्दकन्दुकावस्थायां निकटे स्थितिः ।
:(३) कन्दुकग्रहणे सदैव तत्परत्वम् ।
:(४) तस्य ध्यानं नेत्रे च कन्दुके एव भवेयुः तथा
:(५) कन्दुकेन यष्टित्रयमुत्खायैकं क्रीडकं धावनबहिर्गतं विधातुं प्रयतेत ।
 
===(ङ) [[क्रीडाचक्रम्]]===
क्रीकेटक्रीडाया द्वे अपि दले द्वयोर्द्वयोः चक्रयोः क्रीडतः । प्रथमचक्रस्य आरम्भो मुद्रोत्क्षेपणेन भवति । चक्रनिर्धारणेन समयनिर्घारणेन वाऽपि क्रीडितुं शक्यते । दलनायकः क्रीडाचक्रघोषणे अधिकरोति । एकं दलं प्रथमे चक्रे द्वितीयदलात् १५० अथवा २०० धावनानि न्यूनानि कृत्वा बहिर्भावति तदा द्वितीयदलस्य नेता तद् दलं तदैव द्वितीयचक्रं क्रीडितुं कथयति तदेव ‘फालो आन्’ इति कथयते ।
 
===(च) निर्धारितक्रीडनसंख्यापूर्तिः (ओवर्)===
एकस्मिन् समये षड्वारं कन्दुकक्षेपणं ‘ओवर्’ इति कथ्यते । इदं क्षेपणम् उभयतो भवति । एकक्रमे षड्वारं कन्दुकक्षेपणेन एका पूर्तिर्भवति । एकस्यां पूर्तावेक एव क्रीडकः कन्दुकं क्षिपति । यस्यां पूतौ किमपि धावनं न भवति तदा ‘मैडन् ओवर्’ नाम्ना सम्बोध्यते ।
 
:#[[==क्रिकेट्सम्बद्धाः केचन विशिष्टा निर्देशाः शब्दाश्च]] ==
{{Main|क्रिकेट्सम्बद्धाः केचन विशिष्टा निर्देशाः शब्दाश्च}}
[[क्रिकेट्-क्रीडा]] साम्प्रतं विश्वव्यापिनी विद्यते । अस्यां क्रीडायां जनरुच्यनुसारम् अनेके नियमाः यथावसरं परिष्क्रियन्ते, परिवर्त्यन्ते । बहवः नियमाः तु सूक्ष्मतमाः सन्तः अतीव महत्त्वं भजन्ते । क्रीडेच्छावतां निपुणानां क्रीडकानां साहचर्येण ते ज्ञातव्याः परिपालनीयाश्च । तथाऽपि अत्र निर्देशरूपेण केषाञ्चन सूचनाः उपस्थाप्यन्ते । यथा -
:(१) [[क्रीडानिर्णायकः|क्रीडानिर्णायकस्य]] इदं कर्तव्यं भवति यत् स समयात् प्राक् क्रीडाङ्गणमुपेत्य स्थलीं निरीक्षेत्, दलनेतृभ्यां साहचर्यं सम्प्राप्य क्रीडायाः सर्वान् नियमान् निश्चिनुयात् । पक्षपातं विना क्रीडाविधिं चालयेत् । क्रीडानिर्णायको धावनानां सूचनाय (१) दक्षहस्तमुत्थाप्य करतलं प्रसार्य च ‘बाई’ सङ्केतं करोति तेन ४ धावनानि सूच्यन्ते (२) दक्षपादमुत्थाप्य जानुनि दक्षहस्तं निधाय च ‘लैग बाई’ घोषणां करोति तथा दक्षहस्तं स्कन्धं यावदुत्याप्य एकाम् अङ्गुलीं दर्शयति तदा ‘नो बाल्’ घोषणा सूच्यते । इमानि धावनानि गणनापुस्तिकायां पृथक्-पृथग् लिख्यन्ते । ईदृशं प्रत्येकं धावनस्य कारणमपि भिन्नं भिन्नं भवति ।
[[File:Thripunithura Cricket Club Ground score board.JPG|thumb|स्कोर् बोर्ड्]]
 
:(२) [[धावनसंख्या]]लेखकः ‘स्कोरर्’, धावनसंख्या च ‘स्कोर्’ इति कथ्यते । लेखको निर्णायकस्य निर्देशान् पालयति लिखति च । यत्र गणना लिख्यते सा [[गणनापुस्तिका]] (स्कोर् बुक) गद्यते ।
 
:(३) क्रीडायां कन्दुकलोपे सति [[क्षेत्ररक्षकः]] कन्दुकलोपं ‘लास्ट् बाल्’ घोषयति । खण्डिते त्रुटिते स्फाटिते च सति कन्दुके तस्य परिवर्तनं शक्यते । यष्टित्रयरक्षकस्य कन्दुकक्षेपकस्य हस्ते कन्दुकप्राप्त्याः सीमारेखातो बहिर्गत्या निर्णायकस्य वस्त्रेऽवरोधाच्च स कन्दुको ‘डैड् बाल्’ विनष्टः कन्दुक इति घोष्यते । कन्दुक-प्रक्षेपणस्य नियमानाम् उल्लङ्घने सति ‘नो बाल्’ अप्रयुक्तः कन्दुक इति सूच्यते । कन्दुकस्योच्चावच-प्रक्षेपणेन ‘वाइड् बाल्’ घोषणा क्रियते । कन्दुकताडकस्य काष्ठपट्टिकयाऽथवा शारीरकेण केनापि भागेन स्पर्शं प्राप्य यदि काष्ठखण्डस्य पतनं भवति तदा ‘विकेट् डाउन्’ घोषणा भवति । कान्दुकिकेन क्षिप्तः कन्दुकः ताडकेन ताडितः सन् भूमिस्पर्शं विना निगृह्यते तदा ‘केच्’ भवति तथा ताडकं ‘केच् आउट्’ इति कथयन्ति । यदा कश्चन क्रीडको यष्टित्रये कन्दुकस्पर्शात् पूर्वं स्वकीय निर्धारितरेखास्थले नागच्छेत् तदा स ‘रन् आउट्’ निगद्यते ।
 
इत्थमियं क्रीडा सम्प्रति समस्तं विश्वं व्याप्य स्थिताऽस्ति । अस्यां प्रावीण्यं प्राप्तानां सङ्ख्यापि अतिदवीयसी विद्यते । विभिन्नस्य क्रीडकस्य विभिन्ने विषये वैशिष्ट्यम् आलोक्यते । यथा-
:(१) [[चतुःशतादधिकधावनकर्तारः]]
:(२) शीघ्रगत्या धावनकर्तारः
:(३) ताडने प्रवीणाः
:(४) [[चतुष्क-षट्क-ताडननिपुणाः]]
:(५) एकस्यां प्रतियोगितायां १६ विकेट्-प्रापकाः
:(६) अधिकतमविकेट्गृहीतारः
:(७) [[यष्टिरक्षणपण्डिताः]]
:(८) अधिकतमं कन्दुकनिगृहीतारः
:(९) अधिकाधिकं दूरे कन्दुकप्रक्षेपकाश्च । प्रावीण्यभाजां क्रीडकानां समादरः सर्वत्र अवलोक्यते । नानाविधैः उपहारैः ते सभाज्यन्ते च । अतो वयमपि तान् अभिनन्द्य वदामः-
 
:::'''परीक्षणार्थं प्रतियोगितादृशा, प्रवर्तमाना विविधा हि शृङ्खलाः ।'''
:::'''मनांसि नित्यं रमयन्ति सर्वतः क्रिकेट्-खेला जगतीतलेऽभवत् ॥'''
 
[[वर्गः: क्रीडाः]]
"https://sa.wikipedia.org/wiki/क्रिकेट्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्