"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते । प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति । काव्यमीमांसाया लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान् । स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपदितवान् । फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगि अस्ति ।<br />
प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते । एवञ्चेत् न्यायविद्यायाः प्रतिपादनमेव न्यायदर्शनस्य प्रयोजनमस्ति । केषांचन विदुषां मतानुसारेण न्यायशास्त्रे अनुमानस्य प्राधान्यमस्ति अतएव '''पञ्चावयववाक्यं न्यायः''' इत्यपि उक्तिर्व्यवहृता दृश्यते । तेन सिद्ध्यति यत् न्यायशास्त्रे अनुमानस्य विश्लेषणं सर्वाधिकमहत्वपूर्णमस्ति । आन्वीक्षिकी न्यायेन कथं साम्यं आदत्ते इत्यस्मिन् सन्दर्भे इदं वक्तुं शक्यते यत् प्रत्यक्षदृष्टानां शास्त्रश्रुतानां च विषयाणां तात्त्विक स्वरूपस्य ज्ञापयित्री विद्या आन्वीक्षिकी भवति । व्युत्पत्त्यनुसारं तु '''प्रत्यक्षागमाभ्यां ईक्षितस्य अन्वीक्षणं यस्यां सा आन्वीक्षिकी''' इति स्वीक्रियते । न्यायस्य प्रतिपाद्यमपि एवंविधमेवास्ति, अतः उभयोः साम्यमस्ति ।<br />
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्