"के जे येशुदास" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः २७:
==वृत्तिजीवनम्==
नेपथ्यगायकत्वेन अस्य प्रथमगीतं क्रि.श. १९६१तमे वर्षे लोकार्पितस्य ' काल्पादुवुकल् ' इति मलयाळभाषायाः चलच्चित्रे अस्ति । एतावत् अनेन ५०सहस्राधिकगानानि अनेन गीतानि । एतेषु अस्य मातृभाषया मलयाळभाषया अधिकानि गीतवान् । एतदतिरिच्य [[कन्नडभाषा|कन्नडभाषया]], [[हिन्दीभाषा|हिन्दीभाषया]], [[तमिळुभाषा|तमिळुभाषया]], [[तेलुगुभाषा|तेलुगुभाषया]], [[बङ्गालीभाषा|बङ्गालीभाषया]], [[गुजरातीभाषा|गुजरातीभाषया]], [[ओडिशाभाषा|ओडिशाभाषया]], [[मराठीभाषा|मराठीभाषया]], [[संस्कृतम्|संस्कृतभाषया]], [[तुळुभाषा|तुळुभाषया]], [[पञ्जाबीभाषा|पञ्जाबीभाषया]], अपि च रष्यन्, अरेबिक्, ल्याटिन्, इङ्ग्लिष् इत्यादिभिः वैदेशिकभाषाभिः गीतानि गीतवान् । अस्य सङ्गीतवृत्तेः सुवर्णमहोत्सवे सङ्गीतस्य विषये एवम् उक्तवान् । सङ्गीते विज्ञानम् अस्ति । तज्ज्ञात्वा युवानः अत्र अध्ययननिरताः भवेयुः । प्रत्येकं रागे विज्ञानस्य पृष्ठभूमिः अस्ति । तदविज्ञाय अभ्यासं करोति चेत् प्रयोजनं नास्ति । अस्य सांस्कृतिकपामुख्यं ज्ञातव्यम् । [[संस्कृतम्|संस्कृतभाषा]] सर्वभाषाणां जननी अतः मलयाळभाषविदः मया अन्यभाषासु अपि गातुं शक्तवान् । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतं]] तु समुद्रस्य तरङ्गः इव अहम् अत्र प्रथमतरङ्गे अस्मि । सङ्गीतस्य पूर्णपरिभाषां ज्ञातुम् एकं जन्म पर्याप्तं न भवति । नाहं विद्वान् अहं विद्यार्थी एव इति अवदत् ।
==वैयक्तिकजीवनम्==
|