"धनिष्ठा" इत्यस्य संस्करणे भेदः

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १०:
:संवत्सरोणाममृतं पान्तु । यज्ञं नः पान्तु दक्षिणतोऽभियन्तु ।
:पुण्यं नक्षत्रमभिसंविशाम मा नो अरातिरघशंसागन् ॥ <br />
वैदिककाले धनिष्ठानक्षत्रं श्रविष्ठानक्षत्रम् इत्यपि निर्दिश्यते स्म । '''श्रविष्ठानक्षत्रं वसवो देवता''' इति उल्लिखितम् अस्ति । तन्नाम धनिष्ठानक्षत्रस्य स्वामी वसुदेवता । तैत्तिरीयब्राह्मणस्य अनुसारम् अष्ट वसवः सौम्याः । अस्य नक्षत्रस्य अनुग्रहेण वयं संवत्सरस्य अमृतं प्राप्नुयाम । इदं नक्षत्रं दक्षिणदिक्तः आगच्छति । अस्माकं शत्रून् पापानि च नाशयति
==आश्रिताः पदार्थाः==
:वसुभे मानोन्मुक्ताः क्लीबाचलसौहृदाः स्त्रियां द्वेष्याः ।
:श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
:दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥
:उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥
मानोन्मुक्ता मानवर्जिता निरहङ्काराः । क्लीबाः षण्ढाः । अचलसौहृदाः स्थिरमैत्राः । स्त्रियां द्वेष्याः स्त्रीष्वप्रियाः । दानाभिरता दानशीलाः । बहुवित्तसंयुताः प्रभूतधनान्विताः । ये च नरा मनुष्याः शमपरा जितेन्द्रियाः । एते सर्व एव वसुभे धनिष्ठायाम् ।
मायापटवो मायाविनः प्रपञ्चकुशलाः । नित्योद्युक्ताः सर्वकालं सोद्यमाः कर्मसु व्यापारेषु समर्थाः सक्ताः । उत्साहिनः सोत्साहाः । सधर्मा धर्मसंयुक्ताः । भागवता भगवद्भक्ताः । सत्यवचनाः सत्यभाषिणः । एते सर्व एव श्रवणे ॥
==स्वरूपम्==
:उपनयनं चौलविधिं जलतुरगोष्ट्रेभदेवनिर्माणम् ।
:शान्तिकपौष्टिकमङ्गलविचित्रकृषिशिल्पसम्बराद्यं च ।
:कृषिभवनाहवमम्बरविपिनोद्यानाश्मभूषणं वसुभे ॥<br />
:धामविधानसस्थापनमुपनयनं विष्णुभे कार्यम् ॥<br />
धनिष्ठानक्षत्रे उपनयनम्, चूडाकर्म, जलकर्म, अश्व-उष्ट्र-गजसम्बद्धं कर्म, देवताप्रतिष्ठापनम्, कृषिकर्म, भवनसम्बद्धकर्म, वस्त्रकर्म, उद्यान-शिला-आभूषणकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।
श्रवणानक्षत्रे शान्ति-पौष्टिक-माङ्गलिककार्याणि, कृषि-शिल्प-वस्त्रादिकार्याणि, गृहनिर्माणम्, उपनयनम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।
==चरसंज्ञकनक्षत्राणि==
श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥
श्रवणत्रयं '''श्रवणं'''[[श्रवणा|] [[धनिष्ठा]] [[शतभिषा|शतभिष]]गिति । आदित्यं [[पुनर्वसुः]] । आनिलं [[स्वातिः]] । ते आदियानिले च । एतानि पञ्च नक्षत्राणि । तानि च चरकर्मण्यस्थिरे कर्मणि हितानि प्रशस्तानि ।
 
 
==पश्य==
"https://sa.wikipedia.org/wiki/धनिष्ठा" इत्यस्माद् प्रतिप्राप्तम्