"अलङ्काराः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १०१:
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
अर्थालंकार: - दृष्टान्त अलंकार:
वाक्ययो: उपमानोपमेयायो: प्रतिबिम्बनं दृष्टान्त अलंकार: कथ्यते ।
दृष्टान्तस्तु सधर्मस्य वस्तुन: प्रतिबिम्बनम् । अर्थात् द्वयो: वाक्ययो: धर्मयुक्तवस्तो: (उपमानस्य च उपमेयस्य च) बिम्बप्रतिबिम्बभाव: दृष्टान्तअलंकार: कथ्यते । तात्पर्यमस्ति यत् यत्र उपमेय, उपमानभूतयो: वाक्ययो: धर्मयुक्तउपमेयउपमानयो: प्रतिबिम्बनं वर्णितं भवति तत्र दृष्टान्तअलंकार: भवति ।
विशेष: - बिम्ब-प्रतिबिम्बभाव: - 'द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभाव:' ।
एकस्य अर्थस्य शब्दद्वयेन अभिधानं वस्तुप्रतिवस्तुभाव: ।
द्वयो: अर्थयो: द्वि: उपादानं बिम्बप्रतिबिम्बभाव: ।। -आचार्य विश्वनाथ: ।
दृष्टान्तपदस्योत्पत्ति: - 'दृष्टोन्तो निश्चयो यत्र स दृष्टान्त: ।'
उदाहरणम् -
अविदितगुणापि सत्कविभणिति: कर्णेषु वमति मधुधाराम् ।
अनधिगत परिमलापि हि हरति दृशं मालतीमाला ।।
प्रस्तुतोदाहरणे 'सत्कविभणिति' उपमेयं, 'मालतीमाला' उपमानं च अस्ति । एतयो: मध्ये बिम्ब-प्रतिबिम्बभाव: अस्ति अथ च एतयो: गुणा: अपि बिम्बप्रतिबिम्बभावं वहन्ति अत: दृष्टान्तअलंकार: अस्ति ।
[[वर्गः:अलङ्कारशास्त्रम्]]
|