"वाचस्पतिमिश्रः" इत्यस्य संस्करणे भेदः

सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकारा... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ७:
:समर्पितमथैतेन प्रीयतां परमेश्वरः ॥
 
खण्डनोध्दारकृद् वाचस्पतिमिश्रस्त्वस्माद्बिन्नो नवीनश्च । खण्डनोध्दारः श्री हर्षप्रणीतं[[श्रीहर्षः|श्रीहर्षप्रणीतं]] खण्डनखण्डखाद्यं लक्ष्मीकृत्य कृतो वाचस्पतिना । श्रीहर्षस्तूदयनादधस्तनः । यस्माद् उदयनाचार्यकृतस्य न्यायकुसुमाञ्जलेः –
 
:शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।
पङ्क्तिः २४:
:क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ ॥’
 
इति पठ्यते । सोऽयं श्रीहर्षः खण्डनखाद्ये [[नैषधीयचरितम्|नैषधीयचरिते]] चात्मानं कान्यकुब्जेश्वरसभायामार्णयत् । तदा कालकलनया महोदयापरनाम्नः कान्यकुब्जनगरस्य कान्यकुब्जदेशस्य वा विद्वद्विहंगमाबासकल्पषादपायितेष्वधिपतिषु महाराजो बिजयचन्द्रस्तत्सूनुर्जयचन्द्रो वा संभवति । यस्मात्त्समयस्तदीयदानपत्रात् पश्चविंशत्यधिकद्वादशशतसंवत्सरः १२२५ (इण्डियन् आण्टिक्वेरी १५-७८८)। नैषधीयचरितस्य पश्चमसर्गान्ते कीर्तिता विजयप्रशस्तिः कदाचित्कान्यकुब्जेश्वारस्य विजयचन्द्रस्यैव भवेत् । श्रीहर्षस्य पिता हीरः (हीरा) माता मामह्लदेवी (मामला) देशो जातिश्छ कान्यकुब्जेः (कतबजिया ) । एतद्वंश्याः कतिपयेऽधुना वङ्गेषु निवसन्तः स्वस्यामिजनं कान्यकुब्जं, खपूर्वपुरुषं श्रीहर्ष च कथयन्तीति सुप्रसिध्दम् ॥
"https://sa.wikipedia.org/wiki/वाचस्पतिमिश्रः" इत्यस्माद् प्रतिप्राप्तम्