"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १६:
ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् ।
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।
 
== प्रकृति: भूमिशास्त्रं च==
भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° Eअक्षांशरेखांशेन तिरुवनन्तपुरं विराजते| अस्य जनपदस्य पश्चिमभागे आरबसागर: पूर्वभागे सह्यपर्वत: च वर्तते|नद्य: लघुपर्वता: च देशे तत्र तत्र विद्यन्ते|वेल्लायणी ह्रद:, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्य: प्रमुखा: जलाशया: भवन्ति| समुद्रात् 1890 मी. उपरि स्थित: अगस्त्यकूटम् इति प्रसिद्ध: पर्वत: एव अस्य नगरस्य परमोन्नतप्रदेश:|पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति|
उष्णमेखलाप्रदेशे वर्तते इत्यत: तिरुवनन्तपुरे विभिन्नकालावसथा: प्रत्यक्षतया न अनुभवन्ति|उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते|वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते|दक्षिणपश्चिममण्सूण् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टि: अपि आद्यमागच्छति| प्रतिवर्षं 1700 mm वृष्टि: अत्र पततीति शास्त्रज्ञानां गणना|जूण् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभवति|मार्च् त: मेय् पर्यन्तम् उष्णमनुभवति|
 
== कालावस्थागणनापट्टिका==
 
 
==साम्पत्तिकमेखला ==
पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत्|नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन्| किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति|भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति|
 
==टेक्नोपार्क Technopark ==
भारते विवरसाङ्केतिकमेखलायां अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते इति गणयति| अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क| १९९५ वर्षे इदं स्थापनं स्थापितम्| केरलस्य software निर्गमने ८० प्रतिशतं अस्य नगरस्य सम्भावना भवति| टेक्नोपार्क केन्द्रे २५० companies तथा 35,000 जना: च कर्म करोति| Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रीयगणानां शाखा: टेक्नोपार्क केन्द्रे वर्तते|
 
== विनोदसञ्चारमेखला ==
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला|अनेके देशविदेशयात्रिका: प्रतिदिनमत्र पर्यटनं कुर्वन्ति|आयुर्वेद:, समुद्रतीर:, गिरिप्रदेशीयसुखवासकेन्द्रा: च अस्य नगरस्य विनोदसञ्चारमेखलायां आकृष्टा: वर्तन्ते|
 
 
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्