"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३१:
== विनोदसञ्चारमेखला ==
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला| अनेके देशविदेशयात्रिका: प्रतिदिनमत्र पर्यटनं कुर्वन्ति| आयुर्वेद:, समुद्रतीर:, गिरिप्रदेशीयसुखवासकेन्द्रा: च अस्य नगरस्य विनोदसञ्चारमेखलायां आकृष्टा: वर्तन्ते|
 
== भरणसंविधानम् ==
तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति| केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते| अस्यां नगरसभायां १०० अंगा: विद्यन्ते| तिरुवनन्तपुरं नगरविकसनसमिति, तिरुवनन्तपुरं मार्गविकसनसमिति इत्याद्यनेक्य: समित्य: नगरसभाया: साहाय्यार्थं प्रवर्तन्ते| केरलनियमसभाया:४ नियिजकमण्डला: अस्यां नगरसभायां वर्तन्ते| तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति|
भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते| नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति| केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते|
 
== गतागतम् ==
अनेके मार्गा:, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति| सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना| नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते| समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रीयविमाननिस्थानकं च वर्तते|
 
== गणना ==
२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जना: वसन्ति| ९० प्रतिशतं जना साक्षरा:|जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति|
 
 
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्