"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

=='''मेल्पुत्तूर् नारायणभट्टपाद: '''== मेल्पुत्तूर... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०२:०५, ६ एप्रिल् २०१२ इत्यस्य संस्करणं

मेल्पुत्तूर् नारायणभट्टपाद:

मेल्पुत्तूर् नारायणभट्टपाद: संस्कृतभाषायां महापण्डित: आसीत्| केरलस्य उत्तरभागे निलानद्या: उत्तरतीरे चन्दनक्कावुनामकग्रामे मेल्पुत्तूर् इति प्रतिथे नम्पूतिरिब्राह्मणकुले नारायणभट्टस्य जन्म अभवत्| तस्य पिता मातृदत्त:, माता पय्यूर् द्विजकुलान्तर्गतैका च आस्ताम्| मातृदत्त: बहुशिष्यसम्पन्न: वेदपण्डित: आसीत्| स्वकीयान्तर्गतश्लोके भट्टपादेन स्वजीवनविषय: सूचित:| तद्यदा -

भूखण्डे केरलाख्ये सरितमिह निलामुत्तरेणैव नावा-

क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि सवधाम्नि|

धर्मिष्ठाद् भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा-

ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम् | इति|

अस्य जीवनकालविषये प्रमाणानि उद्धृत्य डा.के कुञ्जुण्णिराजामहोदयेन उक्तं यद् श्रीमन्नरायणभट्टपाद: १५६० तमवर्षत: १६६६ तमवर्षं यावद् जीवितवानिति| मीमांसादिशास्त्राणि स्वपितु: सकाशात्, वेदशास्त्रं माधवाचार्यात्, तर्कशास्त्रं दामोदरार्यात्, व्याकरणशास्त्रम् अच्युतपिषारकात् च अधीतवान् इति प्रक्रियासर्वस्वश्लोकात् ज्ञातुं शक्यते|

नारायणभट्टपादस्य कृतय:

महापण्डितेन तेन प्रक्रियासर्वस्वम्, धातुकाव्यम्, अपाणिनीयप्रामाण्यसाधनम् इति त्रय: संसकृतव्याकरणग्रन्था: विरचिता:| तन्त्रवार्त्तिकनिबन्धनम्, मानमेयोदयम् इति द्वौ पूर्वमीमांसाग्रन्थौ, श्रीमन्नारायणीयम्, श्रीपादसप्तति:, गुरुवायुपुरेशस्तवम्, सूक्तश्लोका:, इत्याद्या: स्तोत्रग्रन्था:, राजसूयम्, दूतकाव्यम्, अष्टमीप्रबन्ध:, कोटिविरहप्रबन्ध:, निरनुनासिकप्रबन्ध:, वामनावतारप्रबन्ध:, दक्षयागप्रबन्ध:, सन्तानगोपालचम्पू, कुचेलवृत्तचम्पू, स्वाहासुधाकरचम्पू, मत्स्यावतारचम्पू, सुभद्राहरणचम्पू, पाञ्चालीस्वयंवरचम्पू, इत्याद्यनेके प्रबन्धा:, गोश्रीनगरवर्णना, वीरकेरलप्रशस्ति:, देवनारायणप्रशस्ति:, बिंबलीशगोदवर्मप्रशस्ति:, मानविक्रमप्रशस्ति: इत्याद्यनेका: प्रशस्तय:, आश्वलायनक्रियाक्रमम्, चतुरंगाष्टकम्, मुक्तकश्लोका: इत्यादय: नारायणभट्टपादेन विरचिता: केचन प्रशस्तग्रन्था:| नारायणभट्टपादस्य सर्वासु कृतिषु विशेषप्रयोगेषु काव्यशोभा इव व्याकरणपाटवमपि समीचीनतया रीत्या द्रष्टुं शक्नुम:| तेन विरचिता: त्रय: व्याकरणग्रन्था: तस्य व्याकरणपाण्डित्यप्रतिपादका: भवन्ति|

प्रक्रियासर्वस्वम्

नारायणभट्टपादस्य कृतिषु प्रधानस्थानं वहति पाणिनीयसूत्राणां सम्पूर्णव्याख्यानात्मकं प्रक्रियासर्वस्वम्| चम्पकश्शेरी देवनारायणराज्ञ: आज्ञया भट्टपादेन प्रक्रियासर्वस्वस्य रचना कृता| ग्रन्थनाम तथा खण्डाविभागा:, तेषां नामानि च देवनारायणेन निर्दिष्टानि| तदाज्ञानुसारेणैव ग्रन्थरचनां कृतवान् नारायणभट्टपाद:| अस्मिन् ग्रन्थे विषयविभागमनुसृत्य देवनारायणेन निर्दिष्टा: विंशतिखण्डा: सन्ति| तदुक्तम्

इह संज्ञा परिभाषा सन्धि: कृत्तद्धिता: समासाश्च

स्त्रीप्रत्यया: सुबर्था: सुपां विधिश्चात्मनेपदविभागा:|

तिङपि च लार्थविशेषा: सनन्त यङ् यङ्लुकश्च सुब्धातु:

न्यायो धातुरुणादिश्छान्दसमिति सन्तु विंशति: खण्डा:| इति|