"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
नारायणभट्टपादस्य कृतिषु प्रधानस्थानं वहति पाणिनीयसूत्राणां सम्पूर्णव्याख्यानात्मकं प्रक्रियासर्वस्वम्| चम्पकश्शेरी देवनारायणराज्ञ: आज्ञया भट्टपादेन प्रक्रियासर्वस्वस्य रचना कृता| ग्रन्थनाम तथा खण्डाविभागा:, तेषां नामानि च देवनारायणेन निर्दिष्टानि| तदाज्ञानुसारेणैव ग्रन्थरचनां कृतवान् नारायणभट्टपाद:| अस्मिन् ग्रन्थे विषयविभागमनुसृत्य देवनारायणेन निर्दिष्टा: विंशतिखण्डा: सन्ति| तदुक्तम्
 
|इह संज्ञा परिभाषा सन्धि: कृत्तद्धिता: समासाश्च
 
स्त्रीप्रत्यया: सुबर्था: सुपां विधिश्चात्मनेपदविभागा:|
 
|तिङपि च लार्थविशेषा: सनन्त यङ् यङ्लुकश्च सुब्धातु:
 
न्यायो धातुरुणादिश्छान्दसमिति सन्तु विंशति: खण्डा:| इति|
एवं विंशतिखण्डात्मकस्यास्य रचनाकाल: १६१७ तमे वर्षे आरभ्य १९१९ तमे वर्षे समाप्तिंगतमिति पण्डितानामभिप्राय:|
 
|रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपं
 
प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्|
पङ्क्तिः ३५:
इति प्रकृतिप्रत्ययरूपव्याकरणतत्वोदाहरणरूपेन मंगलश्लोके श्रीकृष्णगोपिकामेलनस्मरणेन प्रक्रियासर्वस्वमारभ्यते| प्रथमे संज्ञाखण्डे माहेश्वरसूत्रानन्तरं हलन्त्यमिति प्रथमसूत्रम्|अनन्तरम् आदिरन्त्येन सहेता, तस्य लोप: इति क्रमेण सूत्राणि घटितानि| अष्टाध्यायीक्रमं परित्यज्य सूत्राणि प्रक्रियासौकर्यार्थं विषयक्रमेण कथितानि| सूत्राणां विषयक्रमे प्रक्रियाकौमुदी एव मार्गदर्शिका|
अस्मिन् ग्रन्थे पाणिनीयसूत्राणां, वार्त्तिकानां, परिभाषाणां, गणानां, धातूनाम्, उणादीनां च प्रतिपादनमस्ति| यथायोग्यं वार्त्तिकानि उदाहृतानि| सूत्ररूपेण पाणिनिना स्वीकृता: परिभाषा: परिभाषाखण्डे निबद्धा:| ज्ञापकन्यायरूपेण परिगणिता: परिभाषा: समाहृत्य न्यायखण्डे प्रतिपादिता: च| माधवीयधातुवृत्तिमनुसृत्य सर्वे धातव: धातुखण्डे उदाहृता:| सूत्राणां व्याख्यानावसरे यथाक्रमं गणान्तर्गतानि पदानि सम्पूर्णतया उदाहृतानि| 'इष्टादिभ्यश्च' इतीष्टादिगणगतशब्देभ्यो विहितमिनिप्रत्ययं भट्टपाद: देवनारायणस्तुतिपराभ्यां "इष्टी सर्वमुखे, श्रुती श्रुतिशते तत्वे गृहीत्यर्चिती"१ इत्यारभ्य द्वाभ्यां पद्याभ्याम् उदाहरति| तत्र इष्टादिगणीयान् सर्वान् शब्दान् उदाहृता:| अव्ययानि अपि सुबन्तप्रतिरूपाव्ययानि, तद्धितप्रतिरूपाव्ययानि इत्येवंविधं यथायोग्यमुदाहृतानि|
 
==अपाणिनीयप्रामाण्यसाधनम् ==
व्याकरणशास्त्रे नारायणभट्टपादस्य अतिमहदेका सम्भावना भवति अपाणिनीयप्रामाण्यसाधनम् इत्याख्यमेकं क्रोडपत्रम्| पाणिनीयानुसारी केचित् वैयाकरणा: केचन शब्दा: अपाणिनीयप्रयोगा: इति निन्दन्ति| पाणिने: अर्वाचीना: चन्द्रभोजादय: तेषां व्युत्पादनं प्रयोगं च कृतवन्त:| तेषां स्वीकारेण मुनित्रयसिद्धान्तविरोध:न भविष्यन्तीति चिन्ता सयुक्तिकं प्रतिपादयति नारायणभट्टपाद: अस्मिन् क्रोडपत्रे|
प्रक्रियासर्वस्वे अनेन प्रयुक्तानाम् अपाणिनीयप्रयोगानां विमर्शनं चोलदेशीयैकेन वैनतेयपण्डितेन कृतम्| अस्य विमर्शनमवखण्ड्य सुदर्शननामकपण्डित: नारायणभट्टस्य मतं समर्थितवान्| एतं विषयमवलम्ब्य
 
|सुदर्शनसमालम्बी सोऽपि नारायणोऽधुना
 
वैनतेयभवत्पक्षमाक्रम्य स्थातुमारभे|
 
इति श्लोकेन क्रोडपत्रमारभ्यते| अस्य उपक्रमे एव तेन एवमुक्तम् -
 
|पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्र भोजादिसूत्रं?
 
तेऽप्याहुर्यल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्|
बह्वङ्गीकारभेदो भवति गुणवशात् पाणिने: प्राक्कथं वा,
 
पूर्वोक्तिं पाणिनिश्चाप्यनुवदति, विरोधेऽपि कल्प्यो विकल्प:||
 
पाणिनीयव्याकरणस्य बहुभि: अङ्गीकरणे कारणं तस्य गुणविशेष: एव| किन्तु बहुज्ञानां चन्द्रभोजादीनां वचनं कथम् अप्रमाणं भवेत्? पाणिने: पूर्वमपि वैयाकरणा: आसन्, तेषां वचनानि पाणिनि: अपि उद्धरति| पाणिनिना अनुक्ता: केचन शब्दा: कात्यायनेन पतञ्जलिना च उक्ता:| तै: अनुक्ता: शब्दा: भोजाद्यन्यै: वैयाकरणै: उक्ता:| तेऽपि महापण्डिता: आसन्, निर्मूलं किञ्चित् ते न वदेयु:| तस्मात् तेषां वचनानि च प्रमाणान्येव| पाणिने: अन्येषां वैयाकरणानां च वचनानां परस्परं यत्र वैरुध्यं दृश्यते, तत्र अन्यतरस्य स्वीकरणमुचितम्, इति व्याकरणविषये आधुनिकानामप्यङ्गीकार्या विधि: नारायणभट्टपादेन स्वीकृता| एवं वैनतेयेन ये ये वादा: उन्नीता: तान् सर्वान् युक्तियुक्तं प्रतिपक्षबहुमानेन सह खण्डयति भट्टपाद:|
 
|ततोऽन्यग्रन्थसन्दोहैर्मदुक्तान्येव साधयन्
वैनतेयो ममात्यन्तं बन्धुरेवेति शोभनम्||
 
एवं, वैनतेय: अन्यग्रन्थानुद्धृत्य मम वादगतिमेव समर्थयति| तस्मात् तत्रभवान् ममबन्धुरेवेति उक्त्वा स: क्रोडपत्रम् उपसंहरति|
 
==धातुकाव्यम्==
सरसस्य कस्यचित् इतिवृत्तस्य प्रतिपादनेन सह यत्किञ्जित् शास्त्रमपि उदाहरन्ति चेत् तत् शास्त्रकाव्यमिति प्रसिद्धम्| नारायणभट्टपादेन कृतं एकं व्याकरणशास्त्रकाव्यं भवति धातुकाव्यम् | केरलीयेन केनचित् वासुदेवेन वासुदेवविजयम् इति व्याकरणशास्त्रकाव्यं रचितवान्, अस्य अनुबन्धत्वेन विरचितं भवति इदम् | वासुदेवविजयस्योपरि माधवेन विरचितं धातुवृत्तिग्रन्थमाश्रित्य भीमप्रणीतधातुपाठान्तर्गतान् धातून् तदीयक्रमेण अस्मिन्नुदाहरति|
|उदाहृतं पाणिनिसूत्रमण्डलं प्राग्वासुदेवेन तदूर्ध्वतोऽपर:|
 
उदाहरत्यद्य वृकोदरोदितान्, धातून् क्रमेणैव हि माधवाश्रयात्||
 
इति श्लोकेन धातुकाव्यमारभ्यते| कंसदूतस्य अक्रूरस्य गोकुलयात्रादारभ्य कंसवधान्ता श्रीमद्भागवतकथा अस्य काव्यस्य इतिवृत्तम्| सर्गत्रयात्मकेऽस्मिन् काव्ये श्रीकृष्णलीला वर्णिता|
|स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्|
द्रक्ष्यन् हरिं नाधितलोकनाथकं देधे मुदास्कुन्दितमन्तरिन्द्रियम्||
 
इति द्वितीयश्लोके भू सत्तायाम्, एध वृद्धौ, स्पर्ध संघर्षे, गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च, बाधृ लोडने, नाधृनाथृ याच्ञोपतायैश्वर्यादिष्षु, दध धारणे, स्कुदि आप्रवणे इत्येवं धातुपाठस्यादिमनवधातून् क्रमेणोदाहरति| धातूनां तिङन्तरूपाणि कृदन्तरूपाणि चोदाहरणरूपेण प्रदर्शितानि| प्रायेण एकस्य धातो: एकमुदाहरणमिति रूपेण प्रदर्शितवान्, किन्तु कदाचित् धातूनामर्थभेदं सूचयितुं पदभेदं प्रकाशयितुं च अधिकरूपाणि उदाहर्तुं स: विमुख: नासीत्|
द्विनवतिपद्यात्मकप्रथमसर्गं सम्पूर्णं तथा द्वितीयसर्गस्य त्रिचत्वारिंशत्पद्यानि च भ्वादिगणधातूनामुदाहरणानां प्रदर्शनाय उपयुक्तवान्| अदादि-जुहोत्यादि-दिवादि-स्वादि-तुदादि-रुधादिगणधातूनि द्वितीयसर्गस्य त्रिचत्वारिंशत् पद्येषु उदाहृतानि| तृतीयसर्गस्य षट्षष्टिपद्येषु तनादि-क्र्यादि-चुरादिगणान्तर्गतधातूनि उदाहृतानि| एवम् आहत्य चतुर्चत्वारिंशदधिकद्विशत(२४४)पद्यानि धातुकाव्ये सन्ति|
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्