"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः ६३:
सरसस्य कस्यचित् इतिवृत्तस्य प्रतिपादनेन सह यत्किञ्जित् शास्त्रमपि उदाहरन्ति चेत् तत् शास्त्रकाव्यमिति प्रसिद्धम्| नारायणभट्टपादेन कृतं एकं व्याकरणशास्त्रकाव्यं भवति धातुकाव्यम् | केरलीयेन केनचित् वासुदेवेन वासुदेवविजयम् इति व्याकरणशास्त्रकाव्यं रचितवान्, अस्य अनुबन्धत्वेन विरचितं भवति इदम् | वासुदेवविजयस्योपरि माधवेन विरचितं धातुवृत्तिग्रन्थमाश्रित्य भीमप्रणीतधातुपाठान्तर्गतान् धातून् तदीयक्रमेण अस्मिन्नुदाहरति|
:
:उदाहरत्यद्य वृकोदरोदितान्, धातून् क्रमेणैव हि माधवाश्रयात्||
पङ्क्तिः ६९:
इति श्लोकेन धातुकाव्यमारभ्यते| कंसदूतस्य अक्रूरस्य गोकुलयात्रादारभ्य कंसवधान्ता श्रीमद्भागवतकथा अस्य काव्यस्य इतिवृत्तम्| सर्गत्रयात्मकेऽस्मिन् काव्ये श्रीकृष्णलीला वर्णिता|
:
:द्रक्ष्यन् हरिं नाधितलोकनाथकं देधे मुदास्कुन्दितमन्तरिन्द्रियम्||
|