"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १७:
नारायणभट्टपादस्य कृतिषु प्रधानस्थानं वहति पाणिनीयसूत्राणां सम्पूर्णव्याख्यानात्मकं प्रक्रियासर्वस्वम्| चम्पकश्शेरी देवनारायणराज्ञ: आज्ञया भट्टपादेन प्रक्रियासर्वस्वस्य रचना कृता| ग्रन्थनाम तथा खण्डाविभागा:, तेषां नामानि च देवनारायणेन निर्दिष्टानि| तदाज्ञानुसारेणैव ग्रन्थरचनां कृतवान् नारायणभट्टपाद:| अस्मिन् ग्रन्थे विषयविभागमनुसृत्य देवनारायणेन निर्दिष्टा: विंशतिखण्डा: सन्ति| तदुक्तम्
 
:|इह संज्ञा परिभाषा सन्धि: कृत्तद्धिता: समासाश्च
 
:स्त्रीप्रत्यया: सुबर्था: सुपां विधिश्चात्मनेपदविभागा:|
 
:|तिङपि च लार्थविशेषा: सनन्त यङ् यङ्लुकश्च सुब्धातु:
 
:न्यायो धातुरुणादिश्छान्दसमिति सन्तु विंशति: खण्डा:| इति|
एवं विंशतिखण्डात्मकस्यास्य रचनाकाल: १६१७ तमे वर्षे आरभ्य १९१९ तमे वर्षे समाप्तिंगतमिति पण्डितानामभिप्राय:|
 
:|रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपं
 
:प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्|
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्