"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३७:
प्रक्रियासर्वस्वे अनेन प्रयुक्तानाम् अपाणिनीयप्रयोगानां विमर्शनं चोलदेशीयैकेन वैनतेयपण्डितेन कृतम्| अस्य विमर्शनमवखण्ड्य सुदर्शननामकपण्डित: नारायणभट्टस्य मतं समर्थितवान्| एतं विषयमवलम्ब्य
 
:|सुदर्शनसमालम्बी सोऽपि नारायणोऽधुना
 
;
:वैनतेयभवत्पक्षमाक्रम्य स्थातुमारभे|
 
इति श्लोकेन क्रोडपत्रमारभ्यते| अस्य उपक्रमे एव तेन एवमुक्तम् -
 
:|पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्र भोजादिसूत्रं?
 
:तेऽप्याहुर्यल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्|
पङ्क्तिः ५३:
पाणिनीयव्याकरणस्य बहुभि: अङ्गीकरणे कारणं तस्य गुणविशेष: एव| किन्तु बहुज्ञानां चन्द्रभोजादीनां वचनं कथम् अप्रमाणं भवेत्? पाणिने: पूर्वमपि वैयाकरणा: आसन्, तेषां वचनानि पाणिनि: अपि उद्धरति| पाणिनिना अनुक्ता: केचन शब्दा: कात्यायनेन पतञ्जलिना च उक्ता:| तै: अनुक्ता: शब्दा: भोजाद्यन्यै: वैयाकरणै: उक्ता:| तेऽपि महापण्डिता: आसन्, निर्मूलं किञ्चित् ते न वदेयु:| तस्मात् तेषां वचनानि च प्रमाणान्येव| पाणिने: अन्येषां वैयाकरणानां च वचनानां परस्परं यत्र वैरुध्यं दृश्यते, तत्र अन्यतरस्य स्वीकरणमुचितम्, इति व्याकरणविषये आधुनिकानामप्यङ्गीकार्या विधि: नारायणभट्टपादेन स्वीकृता| एवं वैनतेयेन ये ये वादा: उन्नीता: तान् सर्वान् युक्तियुक्तं प्रतिपक्षबहुमानेन सह खण्डयति भट्टपाद:|
 
:|ततोऽन्यग्रन्थसन्दोहैर्मदुक्तान्येव साधयन्
:वैनतेयो ममात्यन्तं बन्धुरेवेति शोभनम्||
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्