"आफ्रिकाखण्डः" इत्यस्य संस्करणे भेदः

महाद्वीपाः
==पृष्ठभूमिका== बहोः कालतः '''अन्धकारखण्डः''' इति प... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

११:५५, ७ एप्रिल् २०१२ इत्यस्य संस्करणं

पृष्ठभूमिका

बहोः कालतः अन्धकारखण्डः इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम आस्ट्रालोपिथेकस्नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं होमो सेपियन् जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।

परिसरः

नित्यहरिद्वर्णता, समशीतोष्णशाद्वलम्, मरुभूमेः वातावरणैश्च युक्तः खण्डः अस्ति अयम् । काभिश्चित् श्रेणिभिः युक्तः उत्तरभागः ४५० मीटर्मितम् उन्नतं वर्तते । पूर्वप्रदेशेषु अनेकाः पर्वतश्रेण्यः वर्तन्ते । दक्षिणभागः ९०० मीटर्मितस्य अपेक्षया उन्नतः अस्ति । मोरोक्को-अल्जीरियाप्रदेशेषु अट्लास्-श्रेण्यः विद्यन्ते (ट्यूबल्शिखरम् - ४०७० मी)। अल्जीरियायाम् अहग्गर् (तहत्-शिखरम् २८५० मी), सुदानौ जेब्-मर्राशैले च स्तः । इथियोपियाप्रदेशे १८०० मीटर्मितस्य अपेक्षया उन्नताः श्रेण्यः सन्ति (ट्यूब्कल्शिखरम् - ४०७० मी) । कीन्या-ताञ्जानियाप्रदेशयोः छिद्रखातपर्वतश्रेण्यः सन्ति (हिमाच्छादितः किलिमञ्जारोशिखरम् - ५८९५ मी, रुवेञ्झेरिशिखरम् - ५१२० मी, कीन्याशिखरं ५१०९ मी) ।

"https://sa.wikipedia.org/w/index.php?title=आफ्रिकाखण्डः&oldid=188985" इत्यस्माद् प्रतिप्राप्तम्