"अपर्णा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
पार्वतीदेव्याः नाम। दक्षप्रजापतेः पुत्री सती=दाक्षायणी पितरि कोपात् यदा यज्ञकुण्डे पतित्वा देहत्यागं च कृत्वा पुनः पर्वतस्य अपत्यं भूत्वा पार्वतीति नाम्ना पुनर्जन्म लेभे, तदा सा सदाशिवमेव वरीतुमियेष । तदर्थं तपस्यामारभत । घोरं तपस्यन्ती क्रमेण फलाहारं शाकाहारं च त्यक्त्वा वाताहतानि वृक्षेभ्यः पतन्ति पर्णानि खादन्ती आसीत् । ततः क्रमेण तमप्याहारं परित्यजन्ती तपोमग्ना आसीदिति हेतोः, यस्याः पर्णमपि नान्नमासीत् सा "[[अपर्णा]]" इति प्रथिता । हरिवंशपुराणे मत्स्यपुराणे च इयं कथा वर्णिताऽस्ति । अस्य पर्यायपदानि [[अमरकोशे]] द्रष्टुं शक्यन्ते यथा-
देव्येः नाम।
:अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥
==पश्य==
*[[देवी]]
"https://sa.wikipedia.org/wiki/अपर्णा" इत्यस्माद् प्रतिप्राप्तम्