पङ्क्तिः ३४:
भवत्या सूचितपृष्ठानि मयापि तत्र अवलोकितानि । इतः पूर्वं तादृशानि अनेकानि पृष्ठानि सम्पादितानि च । तथैव अधुना ’चम्पूरामायणम्’ इत्यादीनि पृष्ठानि यथावकाशेन सम्पादयितुं शक्ष्यामि । किन्तु मम कार्यं मन्दगत्या प्रचलिष्यति । अस्तु वा? । अत्र विद्युत्समस्या अतीव वर्तते । कार्यमध्य एव कदाचित् विद्युत् स्थगिता भवति । तेन सम्पादनकार्ये विलम्ब्यते । अत्र शब्दानुशासनम् नाम नामलिङ्गानुशासनम् न न वा ? । एतदेकं मया नज्ञायते । अन्येषां तु सपादनं करिष्यामि । धन्यवादः । भवदीयः -[[User:Vmbgeral|Vmbgeral]] ([[User talk:Vmbgeral|चर्चा]]) १३:५५, ३ मार्च् २०१२ (UTC)
:धन्यवादः महोदय । शब्दानुशासनं भोजेन लिखितः व्याकरणग्रन्थः इति विवरणं प्राप्यते । तस्मिन् विषये अत्र अवधानं दीयते । अन्यान् लेखान् सज्जीकरोतु । विलम्बः चेदपि चिन्ता नास्ति । भवता अङ्गीकृतम् इत्यतः वयम् अन्यविषये चिन्तयिष्यामः । एतावता भवता एतादृशं बहु कृतमस्ति । तदर्थं कृतज्ञाः वयम् । [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०५:४१, ५ मार्च् २०१२ (UTC)
प्रणामाः । भवता क्रियमाणं कार्यं महते उपकाराय इत्येतावत् कृतज्ञतापूर्वकं वक्तुम् इच्छामि । - भवदीया [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०४:१७, ९ एप्रिल् २०१२ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Vmbgeral" इत्यस्माद् प्रतिप्राप्तम्