पङ्क्तिः ३५:
:धन्यवादः महोदय । शब्दानुशासनं भोजेन लिखितः व्याकरणग्रन्थः इति विवरणं प्राप्यते । तस्मिन् विषये अत्र अवधानं दीयते । अन्यान् लेखान् सज्जीकरोतु । विलम्बः चेदपि चिन्ता नास्ति । भवता अङ्गीकृतम् इत्यतः वयम् अन्यविषये चिन्तयिष्यामः । एतावता भवता एतादृशं बहु कृतमस्ति । तदर्थं कृतज्ञाः वयम् । [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०५:४१, ५ मार्च् २०१२ (UTC)
प्रणामाः । भवता क्रियमाणं कार्यं महते उपकाराय इत्येतावत् कृतज्ञतापूर्वकं वक्तुम् इच्छामि । - भवदीया [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०४:१७, ९ एप्रिल् २०१२ (UTC)
==उशनस् इति पृष्ठविषये==
अयि, शुभामहोदये, "उशनस्" इति पृष्ठे "सः राजा" इत्यस्ति । किन्तु एतत् असमीचीनं भाति । उशनाः नाम शुक्रः खलु! । कृपया समादधातु ।
नमांसि । धन्यवादाः । इति भवदीयः [[User:Vmbgeral|Vmbgeral]] ([[User talk:Vmbgeral|चर्चा]]) ०९:१४, ९ एप्रिल् २०१२ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Vmbgeral" इत्यस्माद् प्रतिप्राप्तम्