"आफ्रिकाखण्डः" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
[[Image:AfricaCIA-HiRes.jpg|thumb|240px|आफ्रिकायाः मानचित्रम्]]
==पृष्ठभूमिका==
बहोः कालतः '''अन्धकारखण्डः''' इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम '''आस्ट्रालोपिथेकस्'''नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं '''होमो सेपियन्''' जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।
[[File:Great Zimbabwe Closeup.jpg|thumb|left|ग्रेट्-जिम्बाब्वेविनाशः]]
==परिसरः==
नित्यहरिद्वर्णता, समशीतोष्णशाद्वलम्, मरुभूमेः वातावरणैश्च युक्तः खण्डः अस्ति अयम् । काभिश्चित् श्रेणिभिः युक्तः उत्तरभागः ४५० मीटर्मितम् उन्नतं वर्तते । पूर्वप्रदेशेषु अनेकाः पर्वतश्रेण्यः वर्तन्ते । दक्षिणभागः ९०० मीटर्मितस्य अपेक्षया उन्नतः अस्ति । मोरोक्को-अल्जीरियाप्रदेशेषु अट्लास्-श्रेण्यः विद्यन्ते (ट्यूबल्शिखरम् - ४०७० मी)। अल्जीरियायाम् अहग्गर् (तहत्-शिखरम् २८५० मी), सुदानौ जेब्-मर्राशैले च स्तः । इथियोपियाप्रदेशे १८०० मीटर्मितस्य अपेक्षया उन्नताः श्रेण्यः सन्ति (ट्यूब्कल्शिखरम् - ४०७० मी) । कीन्या-ताञ्जानियाप्रदेशयोः छिद्रखातपर्वतश्रेण्यः सन्ति (हिमाच्छादितः किलिमञ्जारोशिखरम् - ५८९५ मी, रुवेञ्झेरिशिखरम् - ५१२० मी, कीन्याशिखरं ५१०९ मी) । मध्यताङ्गानिकायाः उपत्यकायां ताञ्जानिया तिष्ठति । जाम्बियायां मुचिङ्गा-लुवाङ्ग्वा च विद्यते । जिम्बाब्वेप्रदेशे मोटोपोपर्वताः, दक्षिण-आफ्रिकायां ड्रेकन्स्बर्ग्-श्रेण्यः विद्यन्ते । मिटुम्बश्रेण्यः जैरेप्रदेशे विद्यत्ने । कर्कवृत्तस्य उत्तर-दक्षिणप्रदेशेषु २०,६५,००० च कि मी विस्तृता सहारामरुभूमिः, दक्षिणमकरवृत्तस्य परिसरे कलहारिमरुभूमिः विद्यते । नमीबियासमुद्रतीरे अपि मरुभूमिः विद्यते । सहरामरुभूमेः पार्श्वे लिबिया, पूर्वमरुभूमिश्च विद्यते । समभाजकवृत्ते स्थितेषु जैरे-लिबेरिया-गबान्-प्रदेशेषु सदा वृष्टिः, हरिद्वर्णसस्यानि भवन्ति । सहारा-कलहारि इत्यादिषु मरुभूमिषु शुष्कवातावरणस्य सस्यानि विद्यन्ते । दक्षिणाफ्रिका-मोरोक्कोप्रदेशेषु मेडिटरेनियन्-वातावरणस्य फलवृक्षाः सन्ति । अवशिष्टेषु भागेषु उष्णवलयस्य तृणशाद्वलानि
नैल्नदी जगति विद्यमानासु नदीषु अति दीर्घा ६६९५ कि मी मितयुता च वर्तते । अस्याः उपनद्यः स्६०३ कि मी दूरे सुदानिप्रदेशे विद्यन्ते । जैरेप्रदेशे प्रवहन्त्याः दीर्घायाः जैरेनद्याः अपि अनेकाः उपनद्यः सन्ति । ४१०० कि मी मितदीर्घयुक्ता नैजर्-नदी नैजीरिया, नैजर्, मालि इत्यादिषु देशेषु प्रवहति । अस्मिन् खण्डे विद्यमानाः अन्याः नद्यः सन्ति - जाम्बेजि, आरेञ्ज्, लिम्पूपो, जुब, शिबेलि च । <br />
अत्र विद्यमानेषु सरोवरेषु विक्टोरिया-ताङ्गानिका च मुख्ये स्तः । मलावि, अल्पर्ट्, बङ्ग्वेल, रुडाल्फ्, करिबा, छाड्, टना, नासेर् इत्यादयः साधारणप्रमाणयुक्ताः सरोवराः सन्ति । जाम्बेजिनद्याः १०० मी औन्नत्ययुतः विक्टोरियानामकः जलपाताः विद्यते । अयं खण्डः जलविद्युच्छक्तेः उत्पादने अग्रेसरः अस्ति । आस्वान् (नैल्), जवेन् (नैल्), वोल्टा, करिबा (जाम्बेजि) कोहोरा (जाम्बेजि) इत्यादीनि विद्युच्छक्त्युत्पादनकेन्द्राणि उद्यमानुकूलाः सन्ति । ताञ्जानिया इथियोपियाप्रदेशेषु जलप्रवाहसमस्या अधिका वर्तते । दक्षिणाफ्रिकाप्रदेशे झाञ्झावातः, मोजाम्बिक्समुद्रप्रदेशेषु उष्णवलयस्य झञ्झावातस्य भयं विद्यते ।
[[File:Ke-Nako Music-Performance Vienna2008c.jpg|thumb|left|upright|135px|दक्षिणाफ्रिकायाः कलावित्]]
==सस्यानि फलोदयश्च==
इथियोपिया, दक्षिणाफ्रिका, सोमालिया, मोजाम्बिक्, जिम्बाब्वे प्रदेशेषु यावानलः उत्पाद्यते । ऐवरिकोस्ट्, घाना, नैजीरिया, कमेरून् प्रदेशेषु कोको वर्धन्ते । लिबेरिया, सियेरा लियोन्, नमीबिया, मध्याफ्रिका, काङ्गो, अङ्गोल, ताञ्जानियादिषु काफी उत्पद्यते । बिसावो, ताञ्जानिया, जिम्बाब्वे, नैजीरिया, गिनि, मोरोक्कोप्रदेशेषु फलानि वर्धन्ते । सुदानिप्रदेशे कलायः वर्धते । ईजिप्ट्, छाड, नैजर्, मारिटेनिया, कीन्यादिषु ओट्स् वर्धते । दक्षिणाफ्रिका मोरोक्कोप्रदेशे लिम्बूकसदृशफलानि, ताञ्जानियायां कदली, दक्षिणाअफ्रिका, मोरोक्कोप्रदेशे द्राक्षा, अङ्गोल, गबान्, कमेरून्, काङ्गो, लिबिया, नैजीरिया, बेनिन्भागेषु खर्जूरं, कीन्या, ताञ्जानियादिषु चायं, कमेरून्, ऐवरिकोस्ट्, लिबेरिया, नैजीरियादिषु रब्बर्-वृक्षः, ताञ्जानियायां सीसल्वृक्षः, दक्षिणाफ्रिका, मोजाम्बिक्, जिम्बाब्वे, ताञ्जानियादिषु तमाखुः च वर्धते ।
[[File:Kobli1.jpg|thumb|right|बेनिन्प्रदेशस्य महिला]]
==प्राणिपक्षिणः==
ओष्ट्रः, विशिष्टजातेः गजाः, खड्गमृगः, झीब्रा, चिम्पाञ्जि, सर्पाः, गोरिल्ला, उष्ट्रपक्षी, ओरिङ्क्स्, सिंहश्च अत्रत्याः प्रमुखाः वन्यप्राणिनः ।
| इन्धनतैलम् || नैजीरिया, अल्जीरिया, अङ्गोल, गबान्, लिबिया, ईजिप्ट्
|}
[[File:Africa-asia-america-to-scale.jpg|thumb|right|375px|उत्तरामेरिका (वामतः) युरेशिया (दक्षिणतः) एताभ्यां युक्तायाः आफ्रिकायाः चित्रम्]]
==उद्यमाः==
उद्यमक्षेत्रे दक्षिणाफ्रिका, नैजीरिया, मोरोक्को प्रदेशाः अधिकां प्रगतिं साधितवन्तः । तृणचारणं, पशुपालनं, कृषिः, उद्यानाभिवृद्धिः इत्यादयः अत्र अधिकप्रमाणकाः उद्योगाः । खनिकर्म, इन्धनतैलोत्पादनम् अस्य खण्डस्य प्रमुखोद्यमाः ।
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/189220" इत्यस्माद् प्रतिप्राप्तम्