"उत्तर-अमेरिकाखण्डः" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (r2.7.2+) (Robot: Adding lez:Кеферпатан Америка)
'''उत्तरामेरिका''' एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। २४,२५८,६६४ च कि मी विस्तारयुक्तः अयं विशालः खण्डः केनडा, वेस्टिण्डिस्, ग्रीन्लेण्ड्, मध्यामेरिका, मेक्सिकोप्रदेशैः युक्तः अस्ति । अस्मिन् विपरीतं वातावरणं, विविधसंस्कृतीनां मिश्रणम्, अत्यधिका सम्पत्तिः, अत्याधुनिकं तन्त्रज्ञानम्, अनेकाः विश्वसंस्थाश्च विद्यन्ते । तान्त्रिकज्ञानं, गणकयन्त्रज्ञाने अग्रेसरत्वम्, असङ्ख्यवस्तूनां निर्यातः, युद्धसामग्र्यः, गोधूमोत्पादनम् इत्यादीनाम् आधारेण युक्तः आढ्यखण्डः वर्तते अयम् । '''प्रबलशक्तिः''' इत्येतत् अन्वर्थनाम अस्य खण्डस्य अमेरिकासंयुक्तसंस्थानां विद्यते ।
'''उत्तरामेरिका''' एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। अस्याः प्रमुखाः देशाः
==परिसरः==
===प्राकृतिकलक्षणानि===
अस्य खण्डस्य पश्चिमार्धम् औन्नत्ये विद्यते । पूर्वार्धं निम्नताप्रदेशे विद्यते । पश्चिमभागे पर्वतश्रेण्यः, पूर्वदिशि उन्नताः प्रदेशाः, मध्यभागे समतलप्रदेशः, पूर्वकरावलीसमतलप्रदेशश्च अस्य खण्डस्य प्राकृतिकभागाः सन्ति । वायव्यभागे अलास्का ब्रूक्-श्रेण्यः विद्यन्ते । केनडादेशस्य पश्चिमदिशि करावलीश्रेण्यः सन्ति । तत्पार्श्वे विद्यमानाः राकीपर्वतश्रेण्यः मेक्सिकोपर्यन्तं विद्यन्ते । केनडादेशस्य मध्यभागतः अमेरिकासंस्थानानां मध्यभागं यावत् विशालः समतलप्रदेशः विद्यते । केनडादेशस्य मध्यभागः पूर्वभागश्च सरोवरैः युक्तः उपत्यकाप्रदेशः इति निर्दिश्यते । ३०<sup>०</sup> - ५०<sup>०</sup> अक्षांश- १२<sup>५</sup> - १०<sup>५</sup> रेखांशयोः मध्ये दक्षिणोत्तरदिशि काश्चन श्रेण्यः विद्यन्ते । समुद्रतीरस्य पार्श्वे समुद्रतीरश्रेणी, ततः सियरा-नेवाद-केस्केड्श्रेण्यः विद्यन्ते । ततः विशालः समतलप्रदेशः, तानन्तरं वसाच्-श्रेणी, कोलोराडो उपत्यका ततः उन्नताः राकिपर्वताः विद्यन्ते । अत्र ४३९९ मी उन्नतम् एल्बर्ट्-शिखरं ४३७८ मी उन्नतं ब्लाङ्काशिखरं च विद्यते । समुद्रतीरस्य समीपे ४३१७ मी उन्नतं शास्ताशिखरम् अस्ति । मेक्सिकोदेशे पश्चिमसियारामाड्रे पूर्वसियारामाड्रेश्रेण्योः मध्ये मेक्सिको-उपत्यका विद्यते । अत्र ५४५२ मी उन्नतं पोपोकटेपेट्ल्, ५७०० मी उन्नतं सिट्लल्ट्पेट्ल्-शिखरो स्तः । पूर्वभागे लघ्व्यः उपत्यकाः सन्ति । अपलेषियन्पर्वताः दक्षिणोत्तरदिशि विद्यन्ते । केनडादेशस्य क्यूबेक्-प्रदेशः लारेन्सियन्-प्रस्थभूमिः इति निर्दिश्यते ।
===जलसम्पत्तिः===
अस्मिन् खण्डे विपरीतवातावरणं दृश्यते । हिमपातः मरुभूमिलक्षणानि विद्यन्ते चेदपि समृद्धा जलसम्पत्तिः विद्यते । अनेकाः नद्यः सरोवराश्च विद्यन्ते । अमेरिकासंयुक्तसंस्थाने मिसिसिपि-मिसूरिनामिका नदी ६६८० कि मी दीर्घयुता विद्यते । केनडियन्, प्लटे यलोस्टोन्, रेड्, अर्कान्सास्, डकोटा, ओहियो, टेनिस्सी इत्यादयः अस्य उपनद्यः सन्ति । इयं नदी अट्लाण्टिक्सागरं प्रविशति । अलबामा, हड्सन्, सें लारेन्स् इत्यादयः पूर्वभागे विद्यमानाः लघुनद्यः । कोलोरेडो-मेक्सिकोसीमाप्रदेशे रियो ग्राण्डे, साक्रामाण्टो, स्नेक्, कोलम्बिया नद्यः विद्यन्ते । केनडादेशस्य युकान्-अलस्कायोः युकान्-नदी वर्तते । मेकेञ्झि, पीस्, चर्चिल्, नेल्सन्, अथबास्का सस्केचवान्, अल्बेनि इत्यादयः नद्यः केनडादेशे विद्यन्ते । केनडादेशे असङ्ख्याः सरोवराः विद्यन्ते । ग्रेट् बियर्, अथबास्का, विनिपेग्, ग्रेट् स्लेव्, लिन्, रेण्डियर् इत्यादयः सरोवराः विद्यन्ते । ऐरि, ओण्टारियो महाप्रमाणकौ सरोवरौ स्तः । एतौ केनडा अमेरिकासंयुक्तसंस्थानयोः सीमाप्रदेशे विद्येते । ओण्टारियोसरोवरस्य दक्षिणतः नयागाराजलपातः विद्यते । उटाराज्यस्य शुष्के परिसरे साल्ट्-सरोवरः विद्यते ।
===वृष्टिः===
अस्य खण्डस्य पूर्वभागे दक्षिणभागे च वृष्टिः तृप्तिकरी अस्ति । स्यान्-फ्रान्सिस्कोतः अलास्कासमुद्रतीरप्रदेशेषु वृष्टिः योग्या वर्तते । १००<sup>०</sup> रेखांशतः पूर्वदिशि, सर्वत्र ७५० मि मी अपेक्षया अधिका वृष्टिः भवति । विशेषतया ग्वाटेमालप्रदेशे ३००० मि मी अपेक्षया अधिका वृष्टिः भवति । वेङ्कूवर्-प्रदेशे अपि वृष्टिः अधिका । युटा, अरिझोना, नेवाडा, इडाहो, ओरेगान्प्रदेशेषु २५० मि मी अपेक्षया न्यूना वृष्टिः भविष्यति । अस्मिन् प्रदेशे जलाभावः विद्यते । केनडादेशस्य ग्रेट्-बियर्-सरोवरस्य उत्तरदिशि, अलास्कायाः उत्तरतीरप्रदेशे, आर्कटिक्-सागरस्य समस्तद्वीपेषु, ग्रीन्लेण्ड्प्रदेशे च शैत्याधिकं भवति । अत्र २५० मि मी अपेक्षया न्यूना वृष्टिः भविष्यति ।
===औष्ण्यम्===
अस्मिन् खण्डे जनवरीमासे शैत्यकालः, जुलैमासे घर्मकालश्च भवति । जनवरिमासे ५०<sup>०</sup> अक्षांशतः उत्तरभागे औष्ण्यं ५<sup>०</sup> सेल्शियस्तः अग्रे न्यूनं भविष्यति । आर्केटिक्सागरद्वीपेषु ग्रीन्लेण्ड्प्रदेशेषु च -३०<sup>०</sup> तः -४०<sup>०</sup> सेल्शियस्मितं भविष्यति । ४०<sup>०</sup> अक्षांशतः दक्षिणतः २८<sup>०</sup> अक्षांशपर्यन्तम् औष्ण्यं ०<sup>०</sup> तः १५<sup>०</sup> सेन्टिग्रेड् भवति । अग्रे दक्षिणदिशि २५<sup>०</sup> सेण्टिग्रेड्पर्यन्तम् अधिकं भविष्यति । ग्रीष्मकाले एल्लेस्मियर्द्वीपे ग्रीन्लेण्ड्प्रदेशे च औष्ण्यं ०<sup>०</sup> तः ५<sup>०</sup> सेण्टिग्रेड्मितं भविष्यति । ततः दक्षिणदिशि औष्ण्यं वर्धते । अरिझेना, मेक्सिकोप्रदेशेषु ३०<sup>०</sup> सेण्टिग्रेड्मितं ततोप्यधिकं वा भविष्यति ।
 
 
 
अस्याः प्रमुखाः देशाः
* [[कानडा]]
* [[अमेरिका संयुक्त संस्थानम्]]
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/189291" इत्यस्माद् प्रतिप्राप्तम्