"उत्तर-अमेरिकाखण्डः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''उत्तरामेरिका''' एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। २४,२५८,६६४ च कि मी विस्तारयुक्तः अयं विशालः खण्डः केनडा, वेस्टिण्डिस्, ग्रीन्लेण्ड्, मध्यामेरिका, मेक्सिकोप्रदेशैः युक्तः अस्ति । अस्मिन् विपरीतं वातावरणं, विविधसंस्कृतीनां मिश्रणम्, अत्यधिका सम्पत्तिः, अत्याधुनिकं तन्त्रज्ञानम्, अनेकाः विश्वसंस्थाश्च विद्यन्ते । तान्त्रिकज्ञानं, गणकयन्त्रज्ञाने अग्रेसरत्वम्, असङ्ख्यवस्तूनां निर्यातः, युद्धसामग्र्यः, गोधूमोत्पादनम् इत्यादीनाम् आधारेण युक्तः आढ्यखण्डः वर्तते अयम् । '''प्रबलशक्तिः''' इत्येतत् अन्वर्थनाम अस्य खण्डस्य अमेरिकासंयुक्तसंस्थानां विद्यते ।
[[Image:North America.png|thumb|उत्तरामेरिकायाः मानचित्रम्]]
==परिसरः==
===प्राकृतिकलक्षणानि===
Line ५ ⟶ ६:
===जलसम्पत्तिः===
अस्मिन् खण्डे विपरीतवातावरणं दृश्यते । हिमपातः मरुभूमिलक्षणानि विद्यन्ते चेदपि समृद्धा जलसम्पत्तिः विद्यते । अनेकाः नद्यः सरोवराश्च विद्यन्ते । अमेरिकासंयुक्तसंस्थाने मिसिसिपि-मिसूरिनामिका नदी ६६८० कि मी दीर्घयुता विद्यते । केनडियन्, प्लटे यलोस्टोन्, रेड्, अर्कान्सास्, डकोटा, ओहियो, टेनिस्सी इत्यादयः अस्य उपनद्यः सन्ति । इयं नदी अट्लाण्टिक्सागरं प्रविशति । अलबामा, हड्सन्, सें लारेन्स् इत्यादयः पूर्वभागे विद्यमानाः लघुनद्यः । कोलोरेडो-मेक्सिकोसीमाप्रदेशे रियो ग्राण्डे, साक्रामाण्टो, स्नेक्, कोलम्बिया नद्यः विद्यन्ते । केनडादेशस्य युकान्-अलस्कायोः युकान्-नदी वर्तते । मेकेञ्झि, पीस्, चर्चिल्, नेल्सन्, अथबास्का सस्केचवान्, अल्बेनि इत्यादयः नद्यः केनडादेशे विद्यन्ते । केनडादेशे असङ्ख्याः सरोवराः विद्यन्ते । ग्रेट् बियर्, अथबास्का, विनिपेग्, ग्रेट् स्लेव्, लिन्, रेण्डियर् इत्यादयः सरोवराः विद्यन्ते । ऐरि, ओण्टारियो महाप्रमाणकौ सरोवरौ स्तः । एतौ केनडा अमेरिकासंयुक्तसंस्थानयोः सीमाप्रदेशे विद्येते । ओण्टारियोसरोवरस्य दक्षिणतः नयागाराजलपातः विद्यते । उटाराज्यस्य शुष्के परिसरे साल्ट्-सरोवरः विद्यते ।
 
[[Image:CIA map of Central America.png|thumb|left|मध्यामेरिकायाः मानचित्रम्]]
===वृष्टिः===
अस्य खण्डस्य पूर्वभागे दक्षिणभागे च वृष्टिः तृप्तिकरी अस्ति । स्यान्-फ्रान्सिस्कोतः अलास्कासमुद्रतीरप्रदेशेषु वृष्टिः योग्या वर्तते । १००<sup>०</sup> रेखांशतः पूर्वदिशि, सर्वत्र ७५० मि मी अपेक्षया अधिका वृष्टिः भवति । विशेषतया ग्वाटेमालप्रदेशे ३००० मि मी अपेक्षया अधिका वृष्टिः भवति । वेङ्कूवर्-प्रदेशे अपि वृष्टिः अधिका । युटा, अरिझोना, नेवाडा, इडाहो, ओरेगान्प्रदेशेषु २५० मि मी अपेक्षया न्यूना वृष्टिः भविष्यति । अस्मिन् प्रदेशे जलाभावः विद्यते । केनडादेशस्य ग्रेट्-बियर्-सरोवरस्य उत्तरदिशि, अलास्कायाः उत्तरतीरप्रदेशे, आर्कटिक्-सागरस्य समस्तद्वीपेषु, ग्रीन्लेण्ड्प्रदेशे च शैत्याधिकं भवति । अत्र २५० मि मी अपेक्षया न्यूना वृष्टिः भविष्यति ।
===औष्ण्यम्===
अस्मिन् खण्डे जनवरीमासे शैत्यकालः, जुलैमासे घर्मकालश्च भवति । जनवरिमासे ५०<sup>०</sup> अक्षांशतः उत्तरभागे औष्ण्यं ५<sup>०</sup> सेल्शियस्तः अग्रे न्यूनं भविष्यति । आर्केटिक्सागरद्वीपेषु ग्रीन्लेण्ड्प्रदेशेषु च -३०<sup>०</sup> तः -४०<sup>०</sup> सेल्शियस्मितं भविष्यति । ४०<sup>०</sup> अक्षांशतः दक्षिणतः २८<sup>०</sup> अक्षांशपर्यन्तम् औष्ण्यं ०<sup>०</sup> तः १५<sup>०</sup> सेन्टिग्रेड् भवति । अग्रे दक्षिणदिशि २५<sup>०</sup> सेण्टिग्रेड्पर्यन्तम् अधिकं भविष्यति । ग्रीष्मकाले एल्लेस्मियर्द्वीपे ग्रीन्लेण्ड्प्रदेशे च औष्ण्यं ०<sup>०</sup> तः ५<sup>०</sup> सेण्टिग्रेड्मितं भविष्यति । ततः दक्षिणदिशि औष्ण्यं वर्धते । अरिझेना, मेक्सिकोप्रदेशेषु ३०<sup>०</sup> सेण्टिग्रेड्मितं ततोप्यधिकं वा भविष्यति ।
{{multiple image
| align = right
| direction = vertical
| header = उत्तरामेरिकायाः नगराणि
| header_align = left/right/center
| header_background =
| footer =
| footer_background =
| width =
| image1 = Santa feee.jpg
| width1 = 200
| caption1 =<center>मेक्सिकोनगरम्</center>
| image2 = Empire State Building From NJ.jpg
| width2 = 200
| caption2 =<center>न्यूयार्क्-नगरम्</center>
| image3 = L.A Financial district.JPG
| width3 = 200
| caption3 =<center>लास्-एञ्जलीस्-नगरम्</center>
| image4 = Buckingham Fountain in Chicago at night .jpg
| width4 = 200
| caption4 =<center>शिकागोनगरम्</center>
| image5 = Toronto-view-from-cn-tower.jpg
| width5 = 200
| caption5 =<center>टोराण्टोनगरम्</center>
}}
==सस्यानि==
अरण्य-तृणशाद्वल-मरुभूमिभिः युक्तः अयं खण्डः परिसरानुगुणैः सस्यैः युक्तः अस्ति । अपलेषियन्पर्वतप्रदेशेषु सरोवरं परितः विद्यमानेषु प्रदेशेषु पैन्, हेम्लाक्, स्प्रूस्, फर् इत्यादयः शङ्ख्वाकारकाः वृक्षाः वर्धन्ते । ततः दक्षिणभागेषु विस्तृतपर्णयुक्तानि मेपल्, ओक्, वाल्नेट्, हिकरि, बीच इत्यादीनि सस्यानि विद्यन्ते । पैन्-वृक्षाः अधिकतया दृश्यन्ते । शैत्यकाले हिमपातावसरे पर्णपातवृक्षैः पतितानि केसर-रक्तवर्णपर्णानि विराजन्ते । इतोपि दक्षिणतः यदि गम्यते मेग्नोलिय, नित्यहरिद्वर्णयुक्तः ओक्-वृक्षः, सैप्नेस्-सस्यं, फ्लोरिडाप्रदेशे ताडवृक्षः, स्याटिन्-वृक्षः, समुद्रजलस्य अरण्यसस्यानि दृश्यन्ते । पश्चिमदिशि राकिश्रेणीप्रदेशेषु पैन्, फर्न्, लार्च्, सेडार्, स्प्रूस्, रेड्वुड् इत्यादयः वृक्षाः वर्धन्ते । वाशिङ्ग्टन्-राज्ये उन्नतानि निबिडारण्यानि सन्ति । टेक्सास् इत्यादिषु शुष्कप्रदेशेषु क्याक्टेनामकं मरुभूमिसस्यं, सेजब्रष्, गम्मीगुल्म इत्यादीनि सस्यानि विद्यन्ते । मरुभूमिप्रदेशे अफीम्-सस्यानि वर्धन्ते । अनेकविधानि लघूनि फलानि अरण्येषु उपलभ्यन्ते । केलिफोर्निया, ओगेगान्, मिस्सूरि ओहियो, पेन्सिल्वेनिय, न्यूयार्क्, फ्लारिडा, मिषिगान् इत्यादिषु राज्येषु फलानि शाकानि च अधिकप्रमाणेन उपलभ्यन्ते । केनडादेशस्य सस्केचवान्, मनिटोबा, अल्बर्टाराज्यानां दक्षिणभागाः कृषियोग्याः सन्ति अवशिष्टाः भागाः अरण्यमयाः केनडायाः पश्चिमभागः उत्तरभागाश्च कृषियोग्याः
न सन्ति । <br />
अमेरिकासंयुक्तसंस्थानस्य मध्य-पूर्वप्रदेशेषु कृषिः, शाद्वलमिश्रितकृषिः भवति । पश्चिमभागेषु तृणशाद्वलानि विद्यन्ते । पशुपालनम् अत्रत्यं विशेषः । गोधूमः, यावानलश्च अत्रत्यः प्रमुखः फलोदयः । अमेरिकासंयुक्तसंस्थानस्य पूर्वभागेषु तमाखुः, कार्पासश्च विशेषः मध्यभागे गोधूमः विशेषफलोदयः । मेक्सिकोदेशस्य दक्षिणभागेषु यावानलः इक्षुदण्डश्च वर्धते । कदली काफी च मेक्सिको, हाण्डुरास्, निकरवागुव, कोस्टरिकासु अधिकप्रमाणेन वर्ध्यते अन्यदेशेभ्यः प्रेष्यते च ।
==प्राणिपक्षिणः==
टेक्सास्-देशे उष्णवलयस्य मण्डूकः, फ्लारिडायां मकरः समशीतोष्णवातावरणस्य प्राणिपक्षिणश्च दृश्यन्ते । अमेरिकायाः वनवृषभः पूर्वम् अधिकप्रमाणेन आसन् । हरिणः, अट्टर्, पुमा, कृष्णभल्लूकः, बीवर्-प्राणिनश्च बहुत्र दृश्यन्ते । पश्चिमभागेषु शाद्वलवृकः, चिप्मङ्क्नामकः चिक्रोडः, कोयेट्, मूस् इत्यादयः वसन्ति । अमेरिकासंयुक्तसंस्थाने क्षीरकृषिनिमित्तमात्रं न अपि च मांसार्थमपि बहुसङ्ख्याकाः गावः सन्ति । युरोपखण्डे दृश्यमानाः पक्षिणः अत्र अपि वसन्ति । रक्त-टनेजर्, हरिद्-हम्मिङ्ग्पक्षी, केसर-कृष्णवर्णीयाः ओरियल्पक्षिणः अमेरिकादेशस्य विशेषाः । क्यालिफोर्नियायाः रेन्, टिट्पक्षिणः अस्मिन् स्थलमात्रे वसन्ति । सुन्दरः कार्डिनल्पक्षी, पूर्वप्रदेशेषु दृश्यमानः व्हिप्पूर्विल् अत्रत्यः विशिष्टपक्षिणः । सरटः, गोधा, विषयुक्तसर्पाः विशेषतया र्याटल्सर्पाः अत्र वसन्ति । एते मरुभूमौ वसन्ति ।
 
==खनिजाः==
अमेरिकासंयुक्तसंस्थानेषु उपलभ्यमानाः एते इन्धनतैलम्, अनिलः, अयः, ताम्रं, बाक्सैट्, स्वर्णं, रजतं, युरेनियञ्च अस्य खण्डस्य प्रमुखाः खनिजाः । केनडादेशे स्वर्णं, रजतं ताम्रम् अयः, निक्केल्, युरेनियम्, इन्धनतैलम् अनिलसम्पत्तिः च अधिकप्रमाणेन विद्यन्ते । मेक्सिकोदेशे स्वर्णं रजतं, अण्टिमनिखनिजाः सन्ति । इन्धनतैलम् अनिलसम्पत्तिश्च विद्यन्ते ।
==उद्यमाः==
केनडादेशस्य टोरेण्टो माण्ट्रियल्प्रदेशेषु महत्प्रमाणकाः उद्यमाः सन्ति । दारुसम्बद्धकर्म तन्नाम काष्ठसारः, कागदादीनाम् उद्यमः विद्यते । अरण्यसम्बद्धोद्यमाः, खनिकर्म,यन्त्रोपकरणानां निर्मितिः, काष्ठतक्षणयन्त्रागाराः विद्यन्ते । कृषिः, मीनपालनं, विद्युद्वस्तुनश्च मेक्सिकोदेशे विद्यते । अमेरिकासंयुक्तसंस्थानेषु अयसः यन्त्रागारः, यन्त्रोपकरणानि, वाहनानि, विमानानि, युद्धसामग्र्यः, आहारपदार्थाः, रासायनिकवस्तूनि, वस्त्रं, कागदं, मुद्रणं, पुस्तकप्रकाशनं, काष्ठवस्तूनि, गणकयन्त्रज्ञानं वर्धनोद्यमाश्च अत्र विद्यन्ते ।
 
 
"https://sa.wikipedia.org/wiki/उत्तर-अमेरिकाखण्डः" इत्यस्माद् प्रतिप्राप्तम्