"दक्षिण अमेरिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Continent
|title = दक्षिण-अमेरिका
|title = South America
|image = [[Image:South America (orthographic projection).svg|200px]]
|area = 17,840,000 km2
पङ्क्तिः १४:
|cities =
{{flagicon|Brazil}} [[São Paulo]]<br/sh>{{flagicon|Argentina}} [[Buenos Aires]]
{{flagicon|Brazil}} [[Rio de Janeiro]]
{{flagicon|Peru}} [[Lima]]
{{flagicon|Colombia}} [[Bogotá]]
{{flagicon|Chile}} [[Santiago, Chile|Santiago]]
{{flagicon|Brazil}} [[Belo Horizonte]]
{{flagicon|Brazil}} [[Porto Alegre]]
{{flagicon|Brazil}} [[Brasília]]
{{flagicon|Ecuador}} [[Guayaquil]]
{{flagicon|Venezuela}} [[Caracas]]
{{flagicon|Colombia}} [[Medellín]]

दक्षिण-अमेरिका सप्तमहाद्वीपेषु अन्यतमा । १७,८१६,५०० च कि मी विस्तारयुक्ते अस्मिन् खण्डे १३ देशाः विद्यन्ते । एतेषु ब्रेझिल् बृहत्तमः, फ्रेञ्च् गयाना लघुतमः वर्तते । अरण्यसमृद्धिः, तैलेन्धनम्, खन्युद्यमश्च अत्रत्य आर्थिकाधाराः । पटगोनियामरुभूमिं विहाय अवशिष्टाः सर्वे अपि भागाः प्राकृतिकसम्पदा समृद्धाः सन्ति ।
दक्षिण-अमेरिका सप्तमहाद्वीपेषु एका।
==परिसरः==
अस्मिन् खण्डे जनवरिमासे ग्रीष्मकालः जुलैमासे शैत्यकालः भवति । मकरवृत्तं खण्डस्य मध्यभागे सञ्चरति इत्यतः अस्य उत्तरभागः सदा अधिकोष्णप्रदेशः भवति । जनवरिमासे आण्डीस् पर्वतावली हार्न्-भूशिरप्रदेशौ विहाय अवशिष्टेषु भागेषु २०० सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतावली-पटगोनियाप्रदेशेषु १०० सेण्टिग्रेड्मितम् अथवा ५० सेण्टिग्रेड्मितम् औष्ण्यं भवति । जुलैमासे मकरवृत्तस्य उत्तरभागे २०० सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतश्रेणीषु ५० सेण्टिग्रेड्मितम् औष्ण्यं भवति । अर्जेण्टीना, चिलि, बोलिवियाप्रदेशेषु विद्यमानासु आण्डीस्श्रेणीषु औष्ण्यं भवति ५० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । पटगोनियायां शुष्कशैत्यं भवति ।
===वृष्टिः===
मकरवृत्तस्य उत्तरभागे वृष्टिः तृप्तिकरी भवति । दक्षिणभागे विशेषतया पटगोनियाप्रदेशे शुष्कता भवति । चिलिदेशस्य उत्तरार्धे अपि शुष्कता भवति । कोलम्बिया, वेनेज्वेल, ब्रेझिल्देशस्य पश्चिमार्धे च २००० मि मीटर्मितस्य अपेक्षया अधिका वृष्टिः भवति । केषुचित् स्थलेषु ३००० - ४००० मि मी वृष्टिः भवति । अर्जेण्टिनायां वृष्टिः न्यूना । ब्रेझिल्देशस्य पूर्वसमुद्रतीरप्रदेशे ५०० मि मी वृष्टिमात्रं भवति ।
==प्राकृतिकसम्पत्तिः==
ओरिनोकोनद्याः खातप्रदेशः ल्यानोस् इति निर्दिश्यति । कोलम्बिया-वेनेज्वेलप्रदेशेषु विस्तृते अस्मिन् समृद्धतृणानि वर्धन्ते । ग्रीष्मकाले आतपः वृष्टिश्च अधिका भविष्यति । शैत्यकाले वृष्टिः न भवति ।
ब्रेझिल्-उत्तरार्धे तन्नाम समभाजकवृत्तस्य उष्णप्रदेशः आर्द्रप्रदेशश्च '''सेल्वास्''' इति कथ्यते । अत्र नैरन्तर्येण वृष्टिः भवति । अत्र नित्यहरिद्वर्णयुतम् अरण्यं कानिचन पर्णपातारण्यानि सन्ति । वन्यजीविनः अधिकाः भवन्ति अत्र । ब्रेझिलस्य उन्नतप्रदेशाः '''काम्पोस्''' इति उच्यन्ते । अस्य वायव्यभागे कटिङ्गा विद्यते । आर्द्रयुक्तम् औष्ण्यम् अत्र अधिकम् । गोपालनम् अत्रत्यः विशेषः ।
उरुग्वे-अर्जेण्टीनायाः उत्तरार्धभागश्च '''पम्पास्''' इति कथ्यते । अत्र वृष्टिः भवति अल्पा । अल्फा अल्फा नामकं तृणम् अत्र अधिकप्रमाणेन वर्धते इत्यतः अत्र मेषपालनं महान् उद्योगः । दक्षिणभागे पटगोनियामरुभूमिः विद्यते । कोलम्बिया, पेरु, इक्वाडर्, बोलिमियादिषु उन्नतः 'आण्डीस् उपत्यका' विद्यते । अत्र शीतलं वातावरणं भवति । शिखराणि हिमाच्छादितानि भवन्ति ।
उत्तरस्य चिलि, पेरु-प्रदेशस्य दक्षिणसमुद्रतीरप्रदेशः '''अटकाममरुभूमिः''' अस्ति । अयं प्रदेशः शुष्कः शैत्ययुक्तश्च । चिलेः दक्षिणार्धे उष्णवलयस्य 'शीतलवातावरणयुक्तं वृष्टि-अरण्यानि सन्ति ।
==नद्यः जलसम्पत्तिश्च==
अस्मिन् खण्डे विद्यमाना प्रमुखा नदी '''अमेजान्''' । अस्य दैर्घ्यमस्ति ६४३७ कि मीटर्मितम् । सावोफ्रान्सिस्को, अराग्वेया, पुरुस्, टपजोस्, झिङ्गु, निग्रो, ब्राङ्को कोलम्बिया प्रदेशेभ्यः आगच्छन्ती '''जापुर''', पेरुतः आगच्छन्ती '''उकायलि''' इत्यादयः अस्याः उपनद्यः सन्ति । इयम् ओरिनोको, वेनेज्वेलप्रदेशेषु वहति । पराननदी ब्रेझिल्तः प्रस्थाय पराग्वे अर्जेण्टैनयोः द्वारा दक्षिण-अट्लाण्टिक्-सागरं प्रविशति । अस्याः उपनदी पिल्कोमावो । उरुग्वेनदी ब्रेझिल्प्रदेशे उद्गत्य उरुग्वेप्रदेशस्य पश्चिमसीमायां वहन्ती परानां तस्य मुखजप्रदेशे सङ्गच्छते । अर्जेण्टैनायाः दक्षिणभागे सलाडो, निग्रो चुबुत् नद्यः विद्यन्ते । पेरुप्रदेशे विद्यमानः इटिकाकासरोवरः एण्डीस्पर्वतावल्याः उपत्यकायां विद्यमानः कश्चन् मधुरजलस्य सरोवरः । अटकोम-पटगोनियप्रदेशौ विहाय अस्मिन् खण्डे जलाभावः न विद्यते ।
==खनिजाः उद्यमश्च==
ब्रेझिल्देशे मेङ्गनीस्, अयः, स्वर्णं, रजतं, सीसं, पुष्पाञ्जनं, वज्रखनयः सन्ति । रियोडि जानिरो, बेलेम्, मनौस्, मसीज्, नाताल, कर्टिबा, साल्वडार्, ब्रासिलिया (राजधानी), सावो-पालो, बेलो, हारिझाण्टे इत्यादीनि औद्यमिकस्थानानि सन्ति । अत्र वस्त्रम्, आहारसंस्करणं, तमाखुवस्तूनि, अयः, वज्रचूर्णम् (सिमिण्ट्), रासायनिकवस्तूनि, तैलशुद्धीकरणम् इत्यादयः उद्यमाः सन्ति । उरुग्वेदेशे इन्धनतैलस्य निक्षेपाः सन्ति । पराग्वेप्रदेशे इन्धनतैलस्य पुष्पाञ्जनस्य खनिः वर्तते । माण्टेवीडो (राजधानी) किञ्चन उद्यमक्षेत्रमस्ति । बोलिविया पुष्पाञ्जन-गन्धकखनिजौ स्तः । अपि च अण्टिमनि, अयः, पुष्पाञ्जनं, ताम्रं, टङ्ग्स्टन्, इन्धनतैलञ्च लभ्यते । अर्जेण्टिनयां विविधाः खनिजाः उपलभ्यन्ते । अत्र इन्धनतैलं, खनिजाङ्गारं, टङ्ग्स्ट्न्, अनिलः, गन्धकः इत्येतेषां खनिजनिक्षेपाः सन्ति । अत्र आहारसंस्करणं, वस्त्रं, यन्त्रोपकरणं, रासायनिकवस्तूनि, वाहनं, विमानं, कागदं, वज्रचूर्णम्, अयः, चर्मवस्तूनि च सिद्धानि भवन्ति । उद्यमे बोनास् एर्स्, बहिया ब्लाङ्का च प्रमुखस्थलं वर्तते । चिलिदेशे अयः, ताम्रं, रजतं, विशेषतया नैट्रेट्, मेङ्गनीस्खनिजाः सन्ति । आहारसंस्करणं, वस्त्राणि, रासायनिकवस्तूनि, चर्मवस्तूनि, कागदं, अयः, धातुनः वस्तूनि इत्येतेषाम् उद्यमाः वर्तन्ते ।

[[वर्गः:महाद्वीपः|दक्षिणामेरिका]]
"https://sa.wikipedia.org/wiki/दक्षिण_अमेरिका" इत्यस्माद् प्रतिप्राप्तम्