"आस्ट्रेलिया" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
[[File:Australia-climate-map MJC01.png|right|thumb|आस्ट्रेलियायाः वातावरणदर्शिनि चित्रम्]]
७,६८६,८४९ च कि मी विस्तारयुतः अस्ति '''आस्ट्रेलियाखण्डः''' । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते ।
==परिसरः==
===वृष्टिः===
अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति ।
 
[[File:Aus Flag.jpg|thumb|left|आस्ट्रेलियाध्वजः]]
===औष्ण्यम्===
जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५<sup>०</sup> -३०<sup>०</sup> सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३०<sup>०</sup> -३५<sup>०</sup> सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १०<sup>०</sup> - १५<sup>०</sup> सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४०<sup>०</sup> सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५<sup>०</sup> -३०<sup>०</sup> सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १०<sup>०</sup> सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५<sup>०</sup> सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति ।
==फलोदयः==
गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।
[[File:Kalgoorlie The Big Pit DSC04498.JPG|thumb|आस्ट्रेलियायाः मुक्तमहास्वर्णखनिः]]
==खनिजाः==
अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।
==जलसम्पत्तिः==
अस्मिन् खण्डे विद्यमाना प्रमुखा नदी वर्तते मरेनदी । इयं विक्टोरिया-न्यू सौथ् वेल्स् प्रदेशयोः प्रवहति । अस्याः उपनद्यः सन्ति - डार्लिङ्ग्, मुर्रुम्बिजी, गौल्बर्न् च । अर्धमार्गे शुष्कतां गच्छन्त्यः काश्चन नद्याः सन्ति । पर्वतप्रदेशतः प्रवहन्त्यः पेसिफिक्-समुद्रेण मिलन्तः लघुनद्यः सन्ति । ऐरिसरोवरः दक्षिण-अस्ट्रेलियायां विद्यमानः कश्चन शुष्कः सरोवरः । फ्लैण्डर्स्-श्रेणीनां पश्चिमदिशि मधुरजलस्य सरोवराः सन्ति । पश्चिम-आस्ट्रेलियायाः कालगूर्लियां परितः प्रदेशेषु विशालविक्टोरिया-मरुभूमिप्रदेशेषु च लघुसरोवराः सन्ति । मध्य-आस्ट्रेलियायाम् अन्तर्जलं विद्यते । आर्टीसियन्-कूपैः जलं लभ्यते ।
[[File:Koala climbing tree.jpg|thumb|left|कोलाभल्लूकः]]
==प्राणिपक्षिणः==
अयं खण्डः विचित्र प्राणिनां पक्षिणां च वासभूमिः । अत्र विद्यमानाः अनेके प्राणिनः अन्यत्र न विद्यन्ते । शरीरे विद्यमानेषु स्यूतेषु श्रावकान् नयन्तः प्राणिनः अत्र अधिकतया दृश्यन्ते । काङ्गरू, वल्लाबि, पोसम्, वोम्ब्याट्, चिक्रोडः, महामूषिकः, तास्मेनियावृकाश्च एवं स्यूतवन्तः भवन्ति । कोलाभल्लूकः, प्लाटिपस्-नामकः जलचरप्राणी, पिपीलिकाभक्षी एचिड्ना इत्येते अत्रत्याः विशिष्टाः प्राणिनः । वनशुनकः 'डिङ्गो' मेषानां मृगयां करोति । शशाः अत्र अत्यधिकाः । कोकाबुर्रा-पक्षी, उड्डयननर्हः एमु, केसोवेरि, विविधशब्दान् अनुकुर्वन् लैर्-पक्षी च अत्रत्याः विशेषाः । आकर्षकवर्णयुताः शुकाः, मधुभक्षी पक्षी, तीक्ष्णपुच्छयुतः गृध्रः, बकः, कदम्बः, पेलिकन्, कृष्ण-हंसपक्षी च अत्र वसन्ति ।
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/189606" इत्यस्माद् प्रतिप्राप्तम्