"एरण्डसस्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
इदम् एरण्डसस्यम् आङ्ग्लभाषया Castor अथवा Ricinus Communis इति उच्यते । हिन्दीभाषया“रेण्डी”, “एरण्ड्”, “एरण्डी” इति च उच्यते । तेलुगुभाषया “अमुडामु” इति, तमिळ्भाषया “अमणक्कम्” इति, मलयाळभाषया“चिट्टामाक्कु”, “अबणक्का” इति च उच्यते । कन्नडभाषया एरण्डसस्यं “हरळु” अथवा “औडल” इति उच्यते ।
== आयुर्वेदस्य अनुसारम् अस्य एरण्डस्य प्रयोजनानि ==
इदम् एरण्डं गृहौषधेषु महता प्रमाणेन उपयुज्यते । इदं मधुर – रसयुक्तम् । तथा च एरण्डम् उष्णवीर्ययुक्तं, गुरुः च ।
#१. इदम् एरण्डं वातं कफं च निवारयति ।
#२. एरण्डस्य अधिकेन प्रमाणेन उपयोगात् अतिसारस्य आरम्भः भवेत् ।
#३. कटिवेदनायां, ज्वरे, कफबाधायां च एरण्डस्य उपयोगः हितकरः ।
४. एरण्डं चर्मव्याधिषु, आमवाते चापि उपयुज्यते ।
#४. एरण्डं चर्मव्याधिषु, आमवाते चापि उपयुज्यते ।
#५. इदम् एरण्डं मलावरोधं निवारयति । कासं, कफं, श्वासोच्छ्वासबाधां चापि अपगमयति ।
#६. मलबद्धतायां बालादारभ्य वृद्धपर्यन्तं सर्वेषाम् अपि अस्य एरण्डबीजस्य तैलं १ – २ चमसमितं दीयते ।
#७. अस्य एरण्डस्य तैलं वेदनानिवारकम् ।
#८. गर्भवतीनां कृते अपि एरण्डतैलं दीयते ।
#९. एरण्डतैलम् अत्यन्तं लेखनम् । तस्मात् उष्णसम्बद्धानां समस्यानां परिहाराय हितकरं भवति ।
#१०. एरण्डतैलं शिरसि, पदतले च औष्ण्यस्य निवारणार्थं लेपयन्ति ।
#११. शुण्ठ्याः कषायेन सह एरण्डम् अपि योजयन्ति चेत् कटिवेदना, कीलवेदना इत्यादयः अपगच्छन्ति ।
#१२. नेत्रे अवकरः पतितः चेत् एरण्डतैलस्य स्थापनेन अवकरः स्वयं बहिः आगच्छति ।
#१३. नेत्रवेदनायाम् अपि एरण्डतैलं हितकरम् ।
#१४. मूलव्याधिना पीड्यमानाः ज्वलनं न्यूनीकर्तुम् एरण्डतैलं “कुमारीरसेन सह योजयित्वा लेपयन्ति ।
#१५. शिरोवेदनायां सत्याम् अपि एरण्डतैलस्य लेपनं शक्यते ।
 
[[वर्गः:औषधीयसस्यानि]]
 
"https://sa.wikipedia.org/wiki/एरण्डसस्यम्" इत्यस्माद् प्रतिप्राप्तम्