"नीतिशतकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तयॆ ।
स्वानुभूत्यॆकमानाय नमः शान्ताय तॆजसॆ ॥
अयं नीतिश्तकस्य मङ्गलश्लोकः ।
==स्वरूपः==
नीतिशतकं [[भर्तृहरिः|भर्तृहरिणा]] रचितम् । अस्मिन् १०० श्लोकाः विद्यन्ते । अयं कविः गृहस्थानां प्रापञ्चिकजनानां च प्रायोगिकमार्गदर्शकः वर्तते । अस्मिन् विवेकः, हितचिन्तनम्, ज्ञानसाधनम्, शौर्यधैर्यविवरणम्, शान्तत्वम्, सौशील्यम् इत्यादिषु विषयेषु बोधनं दृश्यते । अत्र बलवतः धनिकाञ्च उद्दिश्य विनयः दानशीलता च अभ्यसनीया इति सूच्यते । दुर्बलान् दरिद्रान् च उद्दिश्य वदति जीवने सरलता आत्मगौरवञ्च सम्पादनीयमिति । सर्वैः सह स्नेहभावेन व्यवहरणीयमिति उपदिशति । अन्येभ्यः सहाय्यकरणम्, पीडितानां विषये अनुकम्पः, आत्मनिग्रहः, तत्त्वबद्धता च अत्र बहुधा प्रतिपादितः अस्ति । अन्येषां गुणान् श्लाघमानाः अन्येषां दुरगुणादिविषयेदुर्गुणादिविषये मौनाचरणञ्च, स्वस्य उत्तमतायाः गोपनञ्च अवश्यं भाव्यमिति कथयति इदं शतकम् । एते गुणाः अस्मिन् जगति जीवद्भिः एव अभ्यसनीयाः न तु अरण्ये एकान्ते ।
==विषयसूची==
नीतिशतके एते १० विभागाः दृश्यन्ते ।
"https://sa.wikipedia.org/wiki/नीतिशतकम्" इत्यस्माद् प्रतिप्राप्तम्