"निम्बः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Refimprove|date=September 2011}}
{{Italic title}}
{{taxobox
| name = Neem
| image = Neem (Azadirachta indica) in Hyderabad W IMG_6976.jpg
| image_width =250px
| image_caption = ''Azadirachta indica'', flowers & leaves
| regnum = [[Plantae]]
| divisio = [[Flowering plant|Magnoliophyta]]
| ordo = [[Sapindales]]
| familia = [[Meliaceae]]
| genus = ''[[Azadirachta]]''
| species = '''''A. indica'''''
| binomial = ''Azadirachta indica''
| binomial_authority =
| synonyms = ''Antelaea azadirachta'' (L.) Adelb.
}}
 
[[File:Neem tree.JPG|250px|thumb|'''निम्बवृक्षः''']]
 
[[File:Leaves,compound,neem,Tamil Nadu441.jpeg|left|250px|thumb|'''निम्बवृक्षकः''']]
<poem>
शतायुर्वज्रदेहाय सर्वसम्पत्कराय च ।
Line ६ ⟶ २४:
</poem>
अयं श्लोकः निम्ब/निम्बकवृक्षस्य धार्मिकं स्वास्थ्यं च गुरुत्वं सूचयति ।
अयं निम्बवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं बहूपयोगी वृक्षः इत्येव प्रसिद्धः अस्ति । युगादिपर्वणः अवसरे निम्बगुडस्य सेवनं परम्परानुगुणं प्रवर्तते भारते । अयं वृक्षः समतलभूमौ वर्धते । यत्र अधिका वृष्टिः जायते तत्र अयं वृक्षः न वर्धते । कासाराणां, तडागानां, सरोवराणां वा तीरे समृद्धरूपेण वर्धते अयं निम्बवृक्षः । अस्य वृक्षस्य सर्वाङ्गानि अपि औषधत्वेन उपयुज्यन्ते । अस्य पर्णाणि संयुक्तगात्राणि । अयं वृक्षः सदा हरिद्वर्णीयः । अस्य पर्णानाम् अञ्चलः (अन्तिमभागः) क्रकचः इव तीक्ष्णः भवति । अस्य निम्बवृक्षस्य त्वक् कपिलवर्णीयं भवति । पर्णानां कक्षे पुष्पाणां गुच्छं भवति । पुष्पाणि मधुगन्धयुक्तानि, श्वेतवर्णीयानि च भवन्ति । मार्चमासतः मेमासाभ्यन्तरे पुष्पाणि जायन्ते । सेप्टेम्बर्-तः नवेम्बर्-मासाभ्यन्तरे फलानि वर्धन्ते । फलानि मन्दपीतवर्णीयानि । अस्मिन् एव अवधौ बीजानां सङ्ग्रहणम् अपि प्रचलति ।
== इतरभाषाभिः अस्य निम्बवृक्षस्य नामानि ==
अयं निम्बवृक्षः आङ्ग्लभाषया Neem इति उच्यते । हिन्दीभाषया “नीम” इति, तेलुगुभाषया “वेपचेट्टु” इति, तमिळ्भाषाया “वेम्बु” इति, मलयाळभाषया “वेप्पु” इति, कन्नडभाषया “बेवु” अथवा “कहिबेवु” इति उच्यते ।
== आयुर्वेदस्य अनुसारम् अस्य निम्बवृक्षस्य प्रयोजनानि ==
अस्य निम्बवृक्षस्य रसः तिक्तः । अस्य निम्बवृक्षस्य त्वक्, निर्यासः, पर्णं, पुष्पं, पल्लवं, बीजं, फलं, बीजस्य तैलं, पिण्याकः, रसः च औषधत्वेन उपयुज्यते ।
:१. उष्णजले अस्य निम्बवृक्षस्य पर्णानि निमज्य तेन जलेन स्नानं क्रियते चेत् कण्डूयनं, पिटकाः च अपगच्छन्ति ।
:२. विशिष्टेषु केषुचित् पिटकेषु अस्य पर्णानि सम्पेष्य रसं निषीड्य लेप्यते ।
:३. निम्बस्य सेवनेन विषबाधा निवारिता भवति।
:४. यद्यपि निम्बः अत्यन्तं तिक्तः तथापि सः सञ्जीवनी इव । पुस्तकानां मध्ये अपि अस्य पर्णानि स्थाप्यन्ते । तेन पुस्तकानि कीटैः न खाद्यन्ते ।
:५. अस्य पर्णानां शलाकाः दन्तधावनार्थं दन्तकूर्चाणां स्थाने उपयुज्यन्ते ।
:६. मषकाणां निवारणाय अस्य काष्ठैः, पर्णैः वा धूमः उत्पाद्यते ।
:७. अस्य निम्बस्य फलानि क्वथयित्वा उद्घर्ष्य वा निष्कासितं तैलम् औषधत्वेन उपयुज्यते ।
:८. अस्य मूलस्य चूर्णम् उष्णजलेन सह १ – २ चमसमितं प्रातः रिक्तोदरे सेवन्ते चेत् शरीरे बलं वर्धते ।
:९. अस्य फलानि कीटनाशकानि अपि ।
:१०. व्रणेषु यथा पूयं न भवेत् तथा अस्य तैलं, कल्कं वा उपयुज्यते ।
:११. मक्षिकाणां निवारणार्थम्, चर्मरोगेषु च अपि अस्य तैलम् उपयुज्यते ।
:१२. अस्य मूलस्य रसः ज्वरे प्रतिबन्धकत्वेन उपयुज्यते ।
:१३. अनेन फेनकं, दन्तफेनः, दीपतैलं चापि निर्मीयते ।
:१४. कौशेयस्य वर्णपूरणार्थम् अस्य निर्यासः उपयुज्यते ।
:१५. अस्य वल्कलेन रज्जुः निर्मीयते ।
 
 
 
[[File:Neem (Azadirachta indica) in Hyderabad W IMG 6976.jpg|thumb|'''निम्बपुष्पम्''']]
[[वर्गः: औषधीयसस्यानि]]
 
 
 
Line २१ ⟶ ६०:
 
[[वर्गः:सस्यानि]]
 
[[ace:Beuëng]]
[[ar:نيم (نبات)]]
[[bn:নিম]]
[[ca:Nim]]
[[ny:Nimu]]
[[de:Niembaum]]
[[es:Azadirachta indica]]
[[eo:Hinda azadiraĥto]]
[[fa:چریش]]
[[fr:Margousier]]
[[gu:લીમડો]]
[[hi:नीम]]
[[it:Azadirachta indica]]
[[he:אזדרכת הודית]]
[[kn:ಬೇವು]]
[[sw:Mwarobaini]]
[[kv:Ним (быдмӧг)]]
[[ht:Nim]]
[[mrj:Ним (пушӓнгӹ)]]
[[ml:ആര്യവേപ്പ്]]
[[mr:कडुलिंब]]
[[ms:Pokok Mambu]]
[[my:တမာပင်]]
[[nl:Azadirachta indica]]
[[ne:नीम]]
[[ja:インドセンダン]]
[[no:Neem]]
[[or:ନିମ୍ବ]]
[[koi:Ним (быдмас)]]
[[pl:Miodla indyjska]]
[[pt:Neem]]
[[ru:Ним (дерево)]]
[[simple:Neem]]
[[so:Geed Hindi]]
[[fi:Neempuu]]
[[sv:Neem]]
[[ta:வேம்பு]]
[[te:వేప]]
[[th:สะเดา]]
[[to:Nimi]]
[[udm:Ним (будос)]]
[[uk:Нім (дерево)]]
[[ur:نیم]]
[[vi:Sầu đâu]]
[[zh:印度苦楝樹]]
[[en:neem]]
"https://sa.wikipedia.org/wiki/निम्बः" इत्यस्माद् प्रतिप्राप्तम्