"क्षत्रियः" इत्यस्य संस्करणे भेदः

(लघु) क्षत्रिय: इत्येतद् क्षत्रियः इत्येतत् प्रति चालितम्।
No edit summary
पङ्क्तिः ८:
: दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३ ॥
अत्रापि कानिचित् कर्तव्यानि केचन च आचरणीयाः गुणाः क्षत्रियम् उद्दिश्य निर्दिष्टाः ।
 
''रक्षणं सर्वभूतानामिह क्षात्रं परं मतम्'' इति महाभारतकथनानुगुणं क्षत्रियवर्णः सर्वभूतानां परित्राणधर्मपालोभवति । क्षत्रियवर्णः ब्रह्मणोर्भुजाभ्यामुत्पन्न इति मन्यते । क्षत्रियः एव राष्ट्ररक्षणं कर्तुमधिकृतः आसीत् । वर्णाश्रमधर्मरक्षणमेव क्षत्रियस्य प्रमुखं कर्म । रजोगुणसम्पन्नः कामभोगप्रियः, पराक्रमवान् प्रजारक्षकः, वेदाध्ययनशीलः, दाता, दीनजनोद्धारकः धीरः, वीरः, त्यागी, ब्राह्मणपूजकश्च क्षत्रिय इति कीर्तितः । क्षत्रियवर्णस्य प्रमुखेषु कर्त्तव्येषु अध्ययनं-यजनं-दानं चेति त्रयो धर्माः ब्राह्मणवत्समाना एव ।
 
परं विशिष्टं कर्मास्ति ‘प्रजापालनम्’ । सर्वाण्यपि शास्त्राणि सर्वापि स्मृतयो मुक्तकण्ठेनेदमेवावोचन्-क्षत्रियस्य परमो धर्मः प्रजानां पालनम् इति । तथा हि—
:'''प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः'''
:'''गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम् ॥ इति [महाभारतम्-शान्तिपर्व २१/१९]'''
:'''क्षतान्नस्त्रायते सर्वानित्येवं क्षत्रियोऽभवत् '''
:'''क्षतत्राता क्षताज्जीवन् क्षन्ता स्त्रीष्वपि साधुषु ।'''
:'''क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशःश्रियः ॥ ६९/२ [महाश्रेणपर्व-१९७/४]'''
 
इति महाभारतश्लोकवाक्यानां, सर्वशास्त्राणां च सारोऽस्ति भूतसंरक्षणमेव क्षत्रियाणां महान्धर्म इति । क्षत्रियाभावे जगदिदमरक्षितं सद रसातलं गतं स्यादिति च तन्महत्त्वं
 
महाभारते वर्णितम् । तथा हि—
:'''यदि न क्षत्रियो लोके जगत् स्यादधरोत्तमम् ।'''
:'''रक्षणात् क्षत्रियैरेव जगद् भवति शाश्वतम् ॥ [महाभारते अनुशासनपर्व १४१/४८] इति ॥'''
चतुर्णामपि वर्णानां कर्तव्यनिर्वाहस्य भारो राज्ञःभवति स्म । राजा क्षत्रियोऽत्मनोधर्मरक्षणंम्-इतरवर्णानां धर्मरक्षणं च कर्तुं ‘वर्णाश्रमव्यवस्थां’ नियन्त्रयति स्म । तद्व्यवस्थोल्लङ्घनपरान् दण्डयते स्म । एवं क्षत्रियः धर्मज्ञः, प्रजारक्षकः, वर्णाश्रमाणां गुरुश्चेति जनैः कीर्त्यते स्म ।
 
== बाह्यसम्पर्कतन्तुः ==
* History and Culture of Indian People, The Vedic Age, p 313-314
"https://sa.wikipedia.org/wiki/क्षत्रियः" इत्यस्माद् प्रतिप्राप्तम्