"बाङ्गलादेशः" इत्यस्य संस्करणे भेदः

No edit summary
शोधितम्
पङ्क्तिः ८१:
}}
 
बाङ्ग्लादेशः {{lang-bn|<!--The following spelling is correct. If you see anything odd, your browser isn't Unicode compliant:--> বাংলাদেশ}} तु आधिकारिकरूपेण "जनानां बाङ्ग्लादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्ग्लादेशस्थं नगरम्। बाङ्ग्लादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली।
 
अद्यतनस्य बाङ्ग्लादेशस्य सीमा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्तानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्तानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्तानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्तानेन कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्तानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।
"https://sa.wikipedia.org/wiki/बाङ्गलादेशः" इत्यस्माद् प्रतिप्राप्तम्