"कैकेयी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Kaikeyi vilap.jpg|thumb|'''कैकेयीप्रलापः दशरथस्य सान्त्वनम्''']]कैकेयी केकयदेशस्य [[अश्वपतिः|अश्वपतिमहाराजस्य]] पुत्री। [[दशरथः|दशरथस्य]] प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः [[मन्थरायाः|मन्थरायाः]] दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।
तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।
 
कैकेय्याः पुत्रः भरतः।
 
केकयी रामायणकथायां बहुमुख्यपात्रं वहति यत् तस्याः इच्छानुसारेण एव रामः वनं गतवान् । केकयराज्ञः पुत्री केकयी दशरथमहाराज्ञः द्वितीया तथा बहुप्रियतमा पत्नी आसीत् । सा वीरनारी ।
एकदा इन्द्रस्य साहायार्थं दशरथः शंबरेण सह युद्धं कुर्वन् भवति । तत्सन्दर्भे यदा दशरथः बहु सुलुलितः भवति तदा तस्य सारथीरूपॆण उपस्थिता केकयी अधीरा न भवति। वीरनारी केकयी दशरथं युद्धभूमितः दूरं नीत्वा तस्य शुश्रूषां करॊति । नन्तरं प्रतिफलरूपेण दशरथ महाराजः किमपि इच्छयतु ददामि इति उक्तवान् भवति । तदा केकयी सूक्तसमयॆ प्रुच्छामि इति उक्तवती भवति। तस्य प्रयॊजनं सा रामस्य युवराजाभिषेकसन्दर्भे करॊति रामं वनम् प्रेषयतु इति दशरथं प्रुष्ट्वा रामस्य दण्डकाराण्य वासं कारयति।
 
केकयी दुष्टा स्त्रीः न। सा अपि रामं बहु प्रीतिं करॊति। परन्तु यदा रामस्य युवराजाभिषेकं आयॊजितं भवति तदा मन्थरा न तस्याः सॆविकाय उत्तॆजिता भूत्वा तथा व्यवहरति। स्व्पुत्रस्य क्रुते अधिकारलॊभेन तथा राजभवने कौसल्यायाः अपॆक्षया ज्येष्ठ स्थानप्राप्त्यर्थं स्वपुत्रस्य भरतस्य युवराजाभिषेकं तथा रामस्य वनाभिगमनं च अपॆक्षयति। दशरथः स्वपूर्ववाक्येन बद्धः तस्याः हठं अङीक्रुत्वा रामं वनगमनार्थं आदेशं यच्छति यत् पित्रुवाक्यपरिपालनार्थं रामः वनं गच्छति। तदनन्तरं केकय्याः सद्बुद्धिः पुनरागमिष्यति यदा भरतः तस्याः स्वार्थ कार्येण क्रॊधितः दुःखितः च जायते। नन्तरं सा तस्याः दॊषं सत्यीकरॊति पश्चातापं अनुभवति च। किन्त् तावती काले हानिः अभवत् आसीत् यत् रामः वनं गतः दशरथः अपि खेदपीडया म्रुतः आसीत्।
 
[[वर्गः:रामायणस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/कैकेयी" इत्यस्माद् प्रतिप्राप्तम्