"तेलुगु" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
तेलुगुभाषा
==तेलुगु तदवलोकनं च==
भाषाशास्त्रकाराः तेलुगुभाषां द्राविडभाषावर्गे अन्तर्भावितवन्तः । अनेन भाषेयं भारतार्यभाषा-वर्गस्य भाषा न भवति, यत्र हिन्दी, संस्कृतं, लाटिन्, ग्रीक् इत्यादिभाषाः वर्तन्ते । तेलुगुभाषा तु तमिल, कन्नड, मलयाल, तोड, तुळु, ब्रहुयी इत्यादिभाषाभिः सह द्राविडभाषावर्गे स्थानमाप्नोति । तेलुगुभाषा “मूलमध्यद्राविडभाषा” तः समुद्भूता अस्ति । अस्मिन् भाषाकुटुम्बे तेलुगुभाषया सार्धं कुयी, कोय, कोलमी इत्यादिभाषाः अपि सन्ति ।
पङ्क्तिः १८:
तेलुगु, तेनुगु, आन्ध्रम् - एतेषां त्रयाणां पदानां मूलस्य, तन्मध्ये स्थितस्य परस्परसम्बन्धस्य च विषये चरित्रकाराणां भिन्नाभिप्रायाः सन्ति । क्री.पू. ७०० तमे वर्षे ऋग्वेदस्य ऐतरेयब्राह्मणे प्रथमतया “आन्ध्र” इति पदं जातिवाचकत्वेन प्रयुक्तम् । अतः अस्माकं ज्ञानानुसारम् इयमेव प्रचीनतमा प्रस्तुतिः । ततः पश्चात् बौद्धशासनेषु अशोकचक्रवर्तिनः शासनेषु च आन्ध्रीयाणां प्रस्तुतिः आसीत् । क्री.पू. (४) चतुर्थशताब्द्यां मेगस्तनीसः इति ग्रीकराष्ट्रदूतः “आन्ध्रीयाः महासैनिकबलसम्पन्नाः” इति अवर्णयत् ।
आन्ध्रीयैः भाष्यमाणायाः भाषायाः आन्ध्रं, तेलुगु, तेनुगु इत्याख्याः सन्ति । केषाञ्चन अभिप्रायोऽयं यत् आन्ध्रं तेलुगु इत्येतत् पदद्वयं भिन्नजातिद्वयम् इति, कालक्रमेण च तद्द्वयं सम्मिलितं जातम् इति । परम् अस्याभिप्रायस्य जन्युशास्त्रपरतया भाषाशास्त्रपरतया वा सबलानि प्रमाणानि नोपलभ्यन्ते । वैदिकवाङ्मयानुसारेण आन्ध्रीयाः नाम साहसोपेता सञ्चारजातिः । भाषाशास्त्रदृष्ट्या तेलुगुभाषा कृष्णागोदावर्योः नद्योः मध्यभागे निवसतां स्थिरवासिनां भाषा वर्तते । यस्मिन् प्रान्ते तेलुगु भाषा भाष्यमाणा आसीत् तत् प्रान्तम् आदौ अन्ध्रराजैः पालितम् इत्यतः आन्ध्रं, तेलुगु इति द्वे पदे समानार्थवचके सञ्जाते इति केषाञ्चित् अध्याहारः । (१०) दशमशताब्द्याः पारशीकचरित्रकारः श्रीमान् अल्बरूनिः तेलुगुभाषाम् “आन्ध्री” इति अभ्यवर्णयत् । क्री.श. १००० तमवर्षात् पूर्वशासनेषु वङ्मये वा “तेलुगु” इति शब्दः कुत्रापि न दृश्यते । (११) एकादशशताब्द्याः आरम्भतः ’तेलुङ्गु भूपालुरु’, ’तेल्गरमारि’, ’तेलिङ्गकुलकाल’, ’तेलुङ्ग नाडोलगण माधविकेरिय’ इत्यादीनि पदानि शासनेषु प्रयुक्तानि । (११) एकादशशताब्द्यां नन्नयभाट्टारकस्य काले तेलुगुशब्दस्य रूपान्तरत्वेन “तेनुगु” इति शब्दः व्यवहारपथमागतः । (१३) त्रयोदशशताब्द्यां *महम्मदीयचारित्रकाः एतं देशं “तिलिङ्ग्” इति व्यवहृत/वन्तः । (१५) पञ्चदशशताब्द्याः पूर्वभागे विद्वान् विन्नकोट पेद्दन्नः स्वकीये काव्यालङ्कारचूडामणौ आन्ध्रदेशं
==भाषास्वरूपम्==
Line ३८ ⟶ ३९:
| అం (अं)|| అః (अः) || ||
|}
===व्यञ्जनाक्षराणि===
पङ्क्तिः १२०:
तेलुगु अजन्तभाषा, अर्थात् प्रायः सर्वोऽपि तदीयशब्दः स्वरेणैव अन्ततां याति । इदम् अवलोक्य एव (१५) पञ्चदशशताब्द्याम् इटलीदेशीययात्रिकः श्रीमान् निकोलो डा काण्टी तेलुगुभाषां “प्रागिटलीयभाषा” (Italian of the East) इति अभिवर्णितवान् ।
तेलुगुभाषा साधारणतया तत्रत्यपदानि अन्यपदैः साकं संमिलितानि भवन्ति इति परिगण्यते । अत्र नामवाचकस्य तदावश्यकतानुसारम् अन्यानि विशिष्टाक्षराणि संयोज्यन्ते । व्याकरणदृष्ट्या तेलुगुभाषायां कर्ता कर्म क्रिया इत्येतानि त्रीणि क्रमशः एकस्य अनन्तरम् एकम् इति क्रमेण वाक्येषु प्रयुज्यन्ते ।
===सङ्ख्यासङ्केताः===
{| class="IPA wikitable" style=text-align:center
|-
| 0 || १ || २ || ३ || ४ || ५ || ६ || ७ || ८ || 9
|-
| 0 || ౧ || ౨ || ౩ || ౪ || ౫ || ౬ || ౭ || ౮ || ౯
|}
===भाषायाः माण्डलिकाः===
Line २४१ ⟶ २५१:
[[vi:Tiếng Telugu]]
[[zh:泰卢固语]]
[[चित्रम्:उदाहरण.jpg]]
|