"तेलुगु" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
आदिमद्राविडभाषाणां चरित्रादिकं क्रीस्तोः पूर्वं कतिचनशताब्दीनां पृष्ठतः ज्ञातुं शक्यते । परन्तु तेलुगुभाषाचरित्रं क्री.श. षष्ठशतब्दीतः विद्यमानप्रमाणैः निर्णेतुं साध्यम् । तेलुगुभाषायाः सर्वप्रथमम् अतीव स्फुटं च प्राचीनशिलाशासनं सप्तमशताब्द्याः वर्तते । शासनेषु उपलब्धम् आदिमं तेलुगुपदं “नागबु” इति पदम् । क्री.श. एकादशशताब्दीतः ग्रन्थस्थीकृतं स्पष्टं तेलुगुभाषाचरित्रम् अवलोकयितुं शक्यते ।
 
तेलुगु, तेनुगु, आन्ध्रम् - एतेषां त्रयाणां पदानां मूलस्य, तन्मध्ये स्थितस्य परस्परसम्बन्धस्य च विषये चरित्रकाराणां भिन्नाभिप्रायाः सन्ति । क्री.पू. ७०० तमे वर्षे ऋग्वेदस्य ऐतरेयब्राह्मणे प्रथमतया “आन्ध्र” इति पदं जातिवाचकत्वेन प्रयुक्तम् । अतः अस्माकं ज्ञानानुसारम् इयमेव प्रचीनतमा प्रस्तुतिः । ततः पश्चात् बौद्धशासनेषु अशोकचक्रवर्तिनः शासनेषु च आन्ध्रीयाणां प्रस्तुतिः आसीत् । क्री.पू. (४) चतुर्थशताब्द्यां मेगस्तनीसः इति ग्रीकराष्ट्रदूतः “आन्ध्रीयाः महासैनिकबलसम्पन्नाः” इति अवर्णयत् ।
 
आन्ध्रीयैः भाष्यमाणायाः भाषायाः आन्ध्रं, तेलुगु, तेनुगु इत्याख्याः सन्ति । केषाञ्चन अभिप्रायोऽयं यत् आन्ध्रं तेलुगु इत्येतत् पदद्वयं भिन्नजातिद्वयम् इति, कालक्रमेण च तद्द्वयं सम्मिलितं जातम् इति । परम् अस्याभिप्रायस्य जन्युशास्त्रपरतया भाषाशास्त्रपरतया वा सबलानि प्रमाणानि नोपलभ्यन्ते । वैदिकवाङ्मयानुसारेण आन्ध्रीयाः नाम साहसोपेता सञ्चारजातिः । भाषाशास्त्रदृष्ट्या तेलुगुभाषा कृष्णागोदावर्योः नद्योः मध्यभागे निवसतां स्थिरवासिनां भाषा वर्तते । यस्मिन् प्रान्ते तेलुगु भाषा भाष्यमाणा आसीत् तत् प्रान्तम् आदौ अन्ध्रराजैः पालितम् इत्यतः आन्ध्रं, तेलुगु इति द्वे पदे समानार्थवचके सञ्जाते इति केषाञ्चित् अध्याहारः । (१०) दशमशताब्द्याः पारशीकचरित्रकारः श्रीमान् अल्बरूनिः तेलुगुभाषाम् “आन्ध्री” इति अभ्यवर्णयत् । क्री.श. १००० तमवर्षात् पूर्वशासनेषु वङ्मये वा “तेलुगु” इति शब्दः कुत्रापि न दृश्यते । (११) एकादशशताब्द्याः आरम्भतः ’तेलुङ्गु भूपालुरु’, ’तेल्गरमारि’, ’तेलिङ्गकुलकाल’, ’तेलुङ्ग नाडोलगण माधविकेरिय’ इत्यादीनि पदानि शासनेषु प्रयुक्तानि । (११) एकादशशताब्द्यां नन्नयभाट्टारकस्य काले तेलुगुशब्दस्य रूपान्तरत्वेन “तेनुगु” इति शब्दः व्यवहारपथमागतः । (१३) त्रयोदशशताब्द्यां *महम्मदीयचारित्रकाः एतं देशं “तिलिङ्ग्” इति व्यवहृत/वन्तःव्यवहृतवन्तः(१५) पञ्चदशशताब्द्याः पूर्वभागे विद्वान् विन्नकोट पेद्दन्नः स्वकीये काव्यालङ्कारचूडामणौ आन्ध्रदेशं त्रिलिङ्गनाम्ना व्यपदिष्टवान् ।
 
श्रीशैलं, कालेश्वरं, द्राक्षारामः च इत्येतेषां त्रयाणां शिवलिङ्गक्षेत्राणां मध्ये विद्यमानः भूभागः त्रिलिङ्गदेशः इति तच्च “त्रिलिङ्ग” इति पदं गच्छता कालेन “तेलुगु” इति रूपान्तरं प्राप्नोत् इति एकः पक्षः । अन्यच्च गाम्भीर्यप्रकाशनार्थमेव “त्रिलिङ्ग” इति संस्कृतीकृतमिति, तेलुगु इति पदं तु प्राचीनरूपमेव इति चरित्रकाराणाम् अभिप्रायः । (१२) द्वादशशताब्द्यां पाल्कुरिकि सोमनाथः “नवलक्षतेलुङ्गु” इति अर्थात् नवलक्षग्रामैः विस्तीर्णः तेलुगुदेशः इति वर्णितवान् । निष्कर्षः अयमेव यत् तेलुगु, तेनुगु, आन्ध्रम् इति त्रीणि पदानि भाषायाः जातेश्च पर्यायवाचकत्वेन स्वरूपं प्राप्नुवन् ।
 
==भाषास्वरूपम्==
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्