"नामदेव" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
 
कुलवृत्तौ नामदेवस्य आसक्तिः आसीत् अत्यल्पा । तदीया विठोबभक्तिः आसीत् अनन्या । आदिनम् आरात्रिः तस्य एकमेव कार्यं नाम देवध्यानम् । सः विठोबं स्वस्य भ्रातरं मित्रं वा मन्यते स्म । एवं किंवदन्ती काचित् श्रूयते यत् 'पञ्चवर्षीयः नामदेवः कदाचित् मात्रा दत्तम् आहारनैवेद्यं स्वीकृत्य विठोबाय समर्पयितुम् अगच्छत् । विठोबस्य पुरतः संस्थाप्य स्वीकर्तुं प्रार्थयत् । बहु समयं यावत् प्रतीक्षा कृता तेन । तथापि विठोबः नागतः इत्यतः खिन्नः नामदेवः अवदत् - 'भवान् यदि न स्वीकुर्यात् तर्हि अहम् आत्महत्यां कुर्याम्' इति । बालस्य नामदेवस्य भक्त्या सन्तुष्टः विठोबः प्रत्यक्षीभूय नैवेद्यं परिगृहीतवान्' इति ।
नारा, विठा, गोंदा, महादा हे त्यांचे चार पुत्र व एक मुलगी लिंबाई
स्वस्य एकादशे वयसि नामदेवः राजाई नामिकां परिणीतवान् । तयोः चत्वारः पुत्राः - नारा, विठा, गोन्दा, महादा । एका पुत्री - लिंबाई । तस्य ज्येष्ठा अग्रजा अपि तेषां गृहे एव वसति स्म । आहत्य एकादश जनाः गृहे आसन् ।
 
१२९१ तमे वर्षे २१ तमे वयसि तस्य जीवनस्य महत्त्वपूर्णं परिवर्तनं जातं यदा तेन सन्तः ध्यानेश्वरः अमिलत् । बहुत्र इयं घटना उल्लिखिता दृश्यते - कदाचित् ध्यानेश्वरः, निवृत्तिनाथः, सोपन्देवः, मुक्ताबाई, नामदेवः, चोखमेला, विशोबा खेचर इत्यादयः धार्मिकाः एकत्र अमिलन् । ध्यानेश्वरस्य सूचनानुसारं कुम्भकारः सन्तः गोरोबः एकैकस्य शिरसि ताडयन् अध्यात्मदृष्ट्या अयं प्रबुद्धः उत न इति ज्ञातुं प्रयतमानः आसीत् । नामदेवस्य परीक्षायाः अनन्तरं गोरोबः अवदत् यत् अयं अध्यात्मदृष्ट्या अप्रबुद्धः इति । मुक्ताबाई अपि इदम् अनुमोदितवती । नामदेवः देवसमीपमेव अनयत् इमं विषयम् । विशोबखेचारस्य मार्गदर्शनम् अङ्गीक्रियताम् इति देवः असूचयत् । नामदेवः विशोबखेचारं गुरुत्वेन अङ्गीकृतवान् । तस्मात् सः देवदर्शनं प्राप्तवान् ।
तस्य कीर्तनेषु बहूनां ग्रन्थानाम् उल्लेखः दृश्यते इत्यतः ज्ञायते यत् तेन बहवः ग्रन्थाः पठिताः स्युः, सः महान् पण्डितः स्यादिति ।
He accepted Visoba Khechar as his ultimate Guru, through whom he actually saw the form of God.
 
नामदेवः स्वस्य कीर्तनानि गायन् भारते बहुत्र अभ्रमत् । महाराष्ट्रजनानाम् अध्यात्मिकैकतायाः साधने अयं महत्त्वपूर्णं पात्रम् अवहत् । सः पञ्जाबमण्डलस्य गुरुदासपुरे घुमन्-ग्रामे अयं २० वर्षाणि यावत् अवसत् इति श्रूयते । पञ्जाबस्य सिक्खबान्धवाः एतं स्वीयं भावयन्तः नामदेवबाबा इति प्रीत्या आह्वयन्ति स्म । बहोर्दासः, लद्धः, विष्णुस्वामी, केशवकलाधारी च तत्रत्याः शिष्याः । अयं हिन्दीभाषया १२५ अभङ्गनामकानि कीर्तनानि अरचयत् । एतेषु ६१ कीर्तनानि सिक्खानां पवित्रग्रन्थे गुरुग्रन्थसाहिबग्रन्थे 'नामदेवस्य मुखबानि' इति नाम्ना योजितानि सन्ति । राजस्थाने सिक्खजनैः नामदेवस्य मन्दिराणि निर्मितानि सन्ति ।
His Kirtan have references to many holy books. This shows that he was well read and a great scholar. His Kirtan were so effective that it is said –
 
'नामदेववाची'नामके ग्रन्थे नामदेवस्य २५०० कीर्तनानि सङ्गृहीतानि सन्ति । अस्मिन् 'तीर्थावली' नामकं पद्यं सन्तध्यानेश्वरेण सह स्वस्य प्रवासानुभवं कथयति । मराठीसाहित्ये इदमेव प्रथमम् आत्मचरितम् अस्ति । 'आदि' 'समाधि' 'तीर्थावली' इत्येतेषां द्वारा सः ध्यानेश्वरस्य जीवनगाथां कथयति । अतः सः मराठीसाहित्यस्य प्रथमः जीवनचरितलेखकः इत्यपि वक्तुं शक्नुमः । ध्यानेश्वरस्य मरणस्य अनन्तरं ५० वर्षाणि यावत् नामदेवः भगवद्धर्मस्य प्रचारम् अकरोत् । सन्तः तुकारामः अपि अस्मात् नितरां प्रभावितः जातः इति श्रूयते ।
 
नामदेवः अशीतितमे वयसि १३५० तमे वर्षे पण्डरापुरे भगवतः पादारविन्दौ मरणं प्राप्तवान् । सः तस्य मन्दिरस्य सोपानशिला भवितुम् इष्टवान् यस्मात् असङ्ख्यानां सत्पुरुषाणां पादस्पर्षेण अनुगृहीतः स्याम् इति ।
Namdev Kirtan kari, pudhe nache dev Panduranga (Namdev delivers his kirtan, in front of him dances the Lord Pandurang)
==बाह्यशृङ्खला==
* [http://www.manase.org/en/maharashtra.php?mid=68&smid=23&pmid=2&id=370 Saint Namdev]
* [http://books.google.co.uk/books?id=SqUdRVOv9TUC&lpg=PA55&ots=AcTnz3Xs4N&dq=Namdev%20Maharashtra%20temple&pg=PA63#v=onepage&q=Namdev%20Maharashtra%20temple&f=false Religion and public memory By Christian Lee Novetzke]
* [http://www.hindupedia.com/en/Sant_Namdev Sant Namdev] on Hindupedia, the Hindu Encyclopedia
 
[[en:Namdev]]
 
*[[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/नामदेव" इत्यस्माद् प्रतिप्राप्तम्