"तेलुगु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
तेलुगुभाषा द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेशराज्यस्य अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रियभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता ।
 
==तेलुगु तदवलोकनं च==
 
भाषाशास्त्रकाराः तेलुगुभाषां द्राविडभाषावर्गे अन्तर्भावितवन्तः । अनेन भाषेयं भारतार्यभाषा-वर्गस्य भाषा न भवति, यत्र हिन्दी, संस्कृतं, लाटिन्, ग्रीक् इत्यादिभाषाः वर्तन्ते । तेलुगुभाषा तु तमिल, कन्नड, मलयाल, तोड, तुळु, ब्रहुयी इत्यादिभाषाभिः सह द्राविडभाषावर्गे स्थानमाप्नोति । तेलुगुभाषा “मूलमध्यद्राविडभाषा” तः समुद्भूता अस्ति । अस्मिन् भाषाकुटुम्बे तेलुगुभाषया सार्धं कुयी, कोय, कोलमी इत्यादिभाषाः अपि सन्ति ।
 
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्