"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
[[Image:Jharkhand in India (disputed hatched).svg|thumb|]]
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्य मध्यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं [[राञ्ची]] अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च ।
झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः ।
==इतिहासः==
गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके (पृष्ठम्-३३) [[भविष्यपुराणम्|भविष्यपुराणस्य]] उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजानः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।
==झारखण्डः - पृथक् राज्यम्==
झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तं जातम् इत्यतः एव वनवासिनाम् एव पृथक्-प्रदेशः करणीयः अभवत् ।
१९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते (छत्तीसगढराज्यं प्रथमम्) । अयः, अङ्गारः, ताम्रम्, अभ्रकम्, स्फोदिजः, कौकिलेयः, कर्करः, युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।
एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।
==वातावरणम्==
राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति ।
झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्ना अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -
{| class="wikitable"
|-
! मृत्तिका !! प्रदेशः
|-
| रक्तमृत्तिका || दामोदर-उपत्यका, राजमहलप्रदेशः
|-
| अभ्रकयुक्तमृत्तिका || कोडेर्मा, झुमेरितिलैय, बार्कगान्, मन्दार्पर्वतः
|-
| सैकतमृत्तिका || हझारिबाग्, धनबाद्
|-
| कृष्णमृत्तिका || राजमहलप्रदेशः
|-
| अयोपेतरक्तमृत्तिका || पश्चिमराञ्ची, पलमु, सन्ताल्परगण, सिङ्घभुम्
|}
Flora and fauna
==सस्य-प्राणिसम्पत्तिः==
सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते ।
लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः, हरिणाः, अरण्यसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनीजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।
सम्बद्धा: विषया:
|