"कामः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) r2.7.2+) (Robot: Modifying ca:Kama (concepte) |
No edit summary |
||
पङ्क्तिः १:
{{हिन्दूधर्मः}}
धर्मम् अधिकृत्य अस्माभिः पूर्वमेव विवेचितम् । अधुना कामपुरुषार्थम् अधिकृत्य चिन्दयामः । ‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च’ इत्यत्र निर्दिष्टानां पञ्चज्ञानेन्द्रियाणां विषयेषु तृप्तेः वासना एव कामः । तत्र स्पर्शविशेषजन्यं रतिसुखम सर्वश्रेष्ठम् । इत्यतः प्राधान्येन व्यपदेशः इति न्यायेन रतिसंबन्धिनी वासना एव कामः इति प्रायः निगद्यते । ‘सर्वेऽपि सुखिनः सन्तु’ इति संकल्पं कृत्वा शास्त्ररचनायां प्रवृत्ताः शास्रकाराः सुखदायिन्यः वासनाः न् निन्दन्ति । अपि तु तेषां तृप्तिः अवश्यं कर्तव्या इति दर्शयितुमेव कामः पुरुषार्थरुपेण प्रतिपादितः । अस्माकं भगवान् अपि ‘आप्तकामः’ इति वर्ण्यते । एवं कामतत्त्वं न गर्हणीयं न त्याज्यम् अपि तु अवश्यं सेवनीयम् । श्रीमद-भगवद्गीतायां भगवान् श्रीकृष्णः ब्रूते ‘भूतेषु कामोऽस्मि भरतर्षभ’ इति । चतुर्षु पुरुषार्थेषु अहं कामः अस्मि इति । किन्तु तत्र केवलम् एकः पूर्वसमयरुपेण निर्बन्धः वर्तते । तेन कामेन धर्माविरोधेन भाव्यम् । तत्रोक्तं ‘धर्माविरुध्दो भूतेषु कामोऽस्मि भरतर्षभ’ इति । एवं यदि कामः नाम वासनातृप्तिः अभिमता शास्त्रकाराणाम् इति विचिन्त्य कोऽपि कामपि लावण्यवतीं ललनां दृष्ट्वा तां धर्षितुम् इच्छेत् वा कस्यापि धनिकस्य वित्तम् आहर्तुं प्रवृत्तो भवेत् तर्हि तत्र धर्मः ‘मातृवत् परदारेषु परद्रव्येषु लोष्ठवत्’ इति ब्रुवन् तं वारयेत् ।
|