"मोक्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
मोक्षशब्दः ‘मोक्ष्’ मोचने इत्यस्मात् धातोः व्युत्पन्नः । यथा स्वर्गः नाम ‘दिव्यसुखोपभोगसाधनैः’ युक्तं स्थानं यत्र पुण्यवन्तः जनाः मरणानन्तरं गच्छन्ति इति भवति सर्वेषां विश्वासः । तथा मोक्षः नाम न कश्चित् स्थानविशेषः । तत्रोक्तम् –
: '''मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा ।'''
: '''अज्ञानतिमिरग्रन्थिनाशो मोक्ष इति स्मृतः ॥'''
वस्तुतः जीवः परमात्मनः एव अंशः । परन्तु अज्ञानवशात् स तत् तथ्यं न जानाति । यदा अज्ञानं विनश्यति तदा साक्षात्कारेणा स परमात्मना सह तादात्म्यम् अनुभवति । एवं अज्ञानात् मुक्तिः एव मोक्षः ।
"https://sa.wikipedia.org/wiki/मोक्षः" इत्यस्माद् प्रतिप्राप्तम्