"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११८:
जनगणतिविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति ।
 
स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झार्खण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । एतेसां योजनानां कारणतः ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः ।
The demographic changes continued in Jharkhand more rapidly after independence, ironically through the very process of planned development in the country. Central water commission's report in 1994 reveals that 90 major dams were built in Jharkhand since 1951. Apart from these major dams, 400 medium size dams and 11,878 minor dams were built in the region. There are 79 major industries and factories in the region. These development projects benefited mainly those belonging to the formal economy but deprived the tribals mainly those belonging to informal economy and dependent on the natural resources for a livelihood. About 30 lakh people were displaced and affected by development projects like dams, industries, mines, wildlife sanctuaries, defence establishments, airstrips, housing colonies and infrastructural development like roads and railways. About 90% of the displaced and project affected people were tribals.
स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झार्खण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । एतेसां योजनानां कारणतः ३० लक्षजनाः
 
वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' (इज्जलवृक्षस्य) अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वास्यते ।
 
वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातम् - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु ।
सम्‍बद्धा: विषया:
 
बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजति यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां (भाद्रपदशुक्ल-एकादशी), 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिष अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था (ब्राह्मण-क्षत्रिय-वैश्य-शूद्र) न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणत्यां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् पश्चिमवङ्गे असन्सोल्मण्डलस्थे बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ ।
 
झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झार्खण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।
 
राज्यभाषा हिन्दी चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - बेङ्गाली, ओरिया, कोसली, मैथिली, नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान् (कुरुख्), कोर्वा, पहारिय (माल्टो)भाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः ८०%-९०% तासां व्याकरणं समानम् अस्ति ।
 
==संस्कृतिः==
वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः - कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वे आनन्देन भागं वहन्ति ।
 
 
 
सम्‍बद्धा: विषया:
== External link ==
* [http://jharkhand.nic.in राज शासन जालपृष्‍ठ]
"https://sa.wikipedia.org/wiki/झारखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्