"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

पश्चिमघट्टाः भारतस्य पश्चिमभागे स्थिता पर्व... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
पश्चिमघट्टाः भारतस्य पश्चिमभागे स्थिता पर्वतश्रेणी । अस्य सह्यपर्वत इति अपरं नाम अस्ति । दक्षिणप्रस्थभूमौ पश्चिमदिग्भागे व्याप्तः पश्चिमघट्टप्रदेशः पीठ भूमिम् अरब्बि समुद्रस्य सूक्ष्मम् कोङ्करण प्रदेशात् पृथक करोति । महाराष्ट्र – गुजरातराज्ययोः सीमाप्रदेशे [[तपतीनदी|तपतीनद्याः]] दक्षिणे आरब्धा एषा श्रेणी दक्षिणाभिमुखं कन्याकुमारी पर्यन्तम् दृश्यन्ते । आहत्य १६०० कि.मी यावत् व्याप्तः पश्चिमघट्टप्रदेशः [[महाराष्ट्रम्]], [[गोवा]], [[कर्णाटकम्]], [[केरळम्]], [[तमिळ्नाडु]] राज्येषु अन्तर्भवति । अर्धादधिकभागः कर्णाटकराज्ये अस्ति । पश्चिमघट्टप्रदेशः आहत्य ६०,००० च.कि.मी. प्रदेशे व्याप्तः, सङ्कीर्णनदीव्यवस्थायाः मूलं च अस्ति । अत्र सञ्जाताः नद्यः भारतस्य जलानयनप्रदेशस्य ४०% भागं प्रति जलव्यवस्थां कुर्वत्यः सन्ति । घट्टप्रदेशस्यास्य (माकिम्) सर्वसामान्यम् औनत्यम् १२०० मीटर् यावत् भवति । एषः प्रदेशः विश्वस्य अत्यन्तं सक्रियेषु जीववैविध्याश्रयेषु अन्यतमः। अत्र सहस्राधिकविधाः तरुलताः, १३९विधाः सस्तनिनः, ५०८विधाः प्रादेशिकपक्षिणः, २५९विधाह्२५९विधाः प्रादेशिकाः द्विचरिणः च सन्ति ।एतेषां सर्वेषाम् आश्रयस्थानम् अस्ति पश्चिमघट्टप्रदेशः । जगति नाशं अनुभवत्सु जीववैविध्येषु ३२५ वंशीयाः जीविनः पश्चिमघट्टे सन्ति ।
 
पश्चिमघट्टः नैजार्थे पर्वतश्रेणी न । दक्षिणपीठभूमेः पश्चिमपरिधौ एते सन्ति । सामान्यतः १५० दशलक्षवर्षेभ्यः पूर्वम् गोण्डानामहाभूखण्डः छिद्रः अभूत् । तदा पश्चिमघट्टानाम् रचनाऽपि अभूत इति शङ्कते । घट्टप्रदेशेस्मिन् सामान्यतः दृश्यमानाः शिलास्तावत् बसाल्ट् । अस्य स्तरः भूमौ ३ कि. मी. पर्यन्तं व्याप्य तिष्ठति । एवम् अन्यः शिलाप्रकारास्तावत् ग्रानैट्, स्वोंडालैट्, लेप्टिनैट्, चार्नोकैट् इत्यादयः ।
 
उत्तरे सात्पुरश्रेणीतः आरभ्य दक्षिणे स्थितपश्चिमघट्टानां मुख्यश्रेण्यः, [[सह्याद्रिः]], [[बिळिगिरिः]] [[सर्वरायन् श्रेणी]] , एवं [[नीलगिरिः]] ।
बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, काल्सूबायि, महाबलेश्वरः सोनसागरः, [[मुळ्ळय्यनगिरिः]], (१९५० मी.) [[केम्मण्णुगुण्डि]], [[कोडचाद्रिः]], [[कुदुरेमुखः]] (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डबेट्ट, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य [[आनैमुडिः]] अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् [[ऊटी]](उदकमण्डलम्), [[कौडैक्यानल्]] बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।
 
=नद्यः तथा जलपाताः==
पङ्क्तिः २२:
। अतः अधिकशुष्कतां अनुभवति । १००० मी. तः निम्नोन्नते स्थितानि पत्रविमोचन- अरण्यानि अतिपत्रवृक्षैः(Teak) पूर्णानि सन्ति । ततोप्यधिके उन्नतप्रदेशे नित्यहरिद्वर्णारण्येषु लारेसीकुटुम्बस्य वृक्षान् अधिकतया पश्यामः । पश्चिमघट्टस्य दक्षिणभागस्य प्रदेशाः अधिकतया कुल्लेनियावंशस्य वृक्षैःपूर्णाः सन्ति । तैः साकम् अतिपत्रवृक्षाः डिप्टेटोकार्प्स्, इत्यादयः वृक्षाः अपि वर्तन्ते ।
==अरण्यसंरक्षणम्==
पश्चिमघट्टः सामान्यतः समृध्दकाननयुक्तः दुर्गमप्रदेशः आसीत् । ब्रिटिषजनानाम् आगमानन्तरं महता प्रमाणेन अरण्यानि छित्वा वाणिज्यकृषिम् आरब्धवन्तः । अनेन पश्चिमघट्टस्य बहुभागः कृषिभूमिरभवत् । पश्चिमघट्टः भारतस्य भूभागस्य ५% भागं केवलं यावत् आवृत्त्य स्थिताः सन्ति तथापि देशस्य २७% भागादपि अधिकप्रमाणेन उन्नतवर्गियसस्यानि अत्रैव सन्ति । जगति अन्यत्र कुत्रापि द्रष्टुं दुर्लभानि ८४ जातेः द्विचरः अत्र सन्ति । १६ प्रकारकाः पक्षिणः, ७ विधाः सस्तनिनः, १६०० पुष्पसस्यानि अत्र सन्ति । अस्मिन् प्रदेशे १३ राष्ट्रिय-उद्यानानि , २ संरक्षितजीवारण्यकवलयौ च घोषितानि सन्ति । तेन साकम् अनेकानि रक्षितारण्यानि , वन्यजीविधामानि अपि सर्वकारेण उद्घुष्टानि सन्ति । एतानि तत्तत् राज्यस्य अरण्यविभागस्य अधीने कार्यं कुर्वन्ति । तादृशेषु नीलगिरिसंरक्षितजीववलयः अन्यतमः । अस्मिन् ५५०० च. कि. मी. विस्तीर्णवति वलये, [[कर्णाटकम्|कर्णाटकस्य]] [[नागरहोळेराष्ट्रिय-उद्यानम्]] [[बण्डिपुर- राष्ट्रिय-उद्यानम्]], एवं नुगुप्रदेशस्य अरण्यं, [[केरळम्|केरळराज्यस्य]] वयनाड्, तथा [[तमिळ्नाडु]]राज्यस्य [[मुदुमलैराष्ट्रिय-उद्यानम्]] च अन्तर्भवति । एष जीवगोलः पश्चिमघट्टस्य अतिविस्तृतः एकैकः संरक्षितप्रदेशः । केरळस्य [[सैलेण्ट् व्याली राष्ट्रिय- उद्यानम्]] भारते मानवाक्रमणरहितम् अन्तिमम् नित्यहरिद्वर्णभरितम् उष्णवलयस्य काननम् ।
२००६ तमे वर्षे पश्चिमघट्टं विश्वपरम्परायाः स्मारकस्थानरूपेण घोषणार्थम् आवेदनं कृतम् अस्ति । अतः एषः प्रदेशः सप्तधा विभक्तः अस्ति ।
• अगस्त्यमलै उपविभागः ।
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्