"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, काल्सूबायि, महाबलेश्वरः सोनसागरः, [[मुळ्ळय्यनगिरिः]], (१९५० मी.) [[केम्मण्णुगुण्डि]], [[कोडचाद्रिः]], [[कुदुरेमुखः]] (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डबेट्ट, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य [[आनैमुडिः]] अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् [[ऊटी]](उदकमण्डलम्), [[कौडैक्यानल्]] बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।
 
==नद्यः तथा जलपाताः==
 
भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति [[जोगजलपातः]] ।भारतस्य अनेकासां सार्वकालिकीनां नदीनाम् पश्चिमघट्टः एव मूलस्त्रोतः । अत्र [[ताम्रपर्णी]], [[गोदावरी]], [[कृष्णा]] एवं [[कावेरी]] एताः प्रमुखनद्यः । एताः पूर्वाभिमुखं प्रवहन्ति । पश्चिमाभिमुखगामिन्यः नद्यः वेगेन प्रवहन्ति तासां व्याप्तिरपि अल्पा । [[माण्डवी]], [[जुवारी]] , [[शरावती]] [[नेत्रावती]] एतासु प्रमुखाः । वेगेन प्रवहन्ति इत्यतः एताः अनेकजलविद्युतयोजनानाम् आधारभूताः । विद्युत् योजनार्थं अनेके जलबन्धाः निर्मिताः सन्ति। । तेषु खोपोलि कोय्ना, लिङ्गनमक्की तथा परम्बिकुलं योजनाः प्रमुखाः ।
पङ्क्तिः २२:
। अतः अधिकशुष्कतां अनुभवति । १००० मी. तः निम्नोन्नते स्थितानि पत्रविमोचन- अरण्यानि अतिपत्रवृक्षैः(Teak) पूर्णानि सन्ति । ततोप्यधिके उन्नतप्रदेशे नित्यहरिद्वर्णारण्येषु लारेसीकुटुम्बस्य वृक्षान् अधिकतया पश्यामः । पश्चिमघट्टस्य दक्षिणभागस्य प्रदेशाः अधिकतया कुल्लेनियावंशस्य वृक्षैःपूर्णाः सन्ति । तैः साकम् अतिपत्रवृक्षाः डिप्टेटोकार्प्स्, इत्यादयः वृक्षाः अपि वर्तन्ते ।
==अरण्यसंरक्षणम्==
पश्चिमघट्टः सामान्यतः समृध्दकाननयुक्तः दुर्गमप्रदेशः आसीत् । ब्रिटिषजनानाम् आगमानन्तरं महता प्रमाणेन अरण्यानि छित्वा वाणिज्यकृषिम् आरब्धवन्तः । अनेन पश्चिमघट्टस्य बहुभागः कृषिभूमिरभवत् । पश्चिमघट्टः भारतस्य भूभागस्य ५% भागं केवलं यावत् आवृत्त्य स्थिताः सन्ति तथापि देशस्य २७% भागादपि अधिकप्रमाणेन उन्नतवर्गियसस्यानि अत्रैव सन्ति । जगति अन्यत्र कुत्रापि द्रष्टुं दुर्लभानि ८४ जातेः द्विचरः अत्र सन्ति । १६ प्रकारकाः पक्षिणः, ७ विधाः सस्तनिनः, १६०० पुष्पसस्यानि अत्र सन्ति । अस्मिन् प्रदेशे १३ राष्ट्रिय-उद्यानानि , २ संरक्षितजीवारण्यकवलयौ च घोषितानि सन्ति । तेन साकम् अनेकानि रक्षितारण्यानि , वन्यजीविधामानि अपि सर्वकारेण उद्घुष्टानि सन्ति । एतानि तत्तत् राज्यस्य अरण्यविभागस्य अधीने कार्यं कुर्वन्ति । तादृशेषु नीलगिरिसंरक्षितजीववलयः अन्यतमः । अस्मिन् ५५०० च. कि. मी. विस्तीर्णवति वलये, [[कर्णाटकम्|कर्णाटकस्य]] [[नागरहोळेराष्ट्रिय-उद्यानम्]] [[बण्डिपुर- राष्ट्रिय-उद्यानम्]], एवं नुगुप्रदेशस्य अरण्यं, [[केरळम्|केरळराज्यस्य]] वयनाड्, तथा [[तमिळ्नाडु]]राज्यस्य [[मुदुमलैराष्ट्रिय-उद्यानम्]] च अन्तर्भवति । एष जीवगोलः पश्चिमघट्टस्य अतिविस्तृतः एकैकः संरक्षितप्रदेशः । केरळस्य [[सैलेण्ट् व्याली राष्ट्रिय- उद्यानम्]] भारते मानवाक्रमणरहितम् अन्तिमम् नित्यहरिद्वर्णभरितम् उष्णवलयस्य काननम् ।
२००६ तमे वर्षे पश्चिमघट्टं विश्वपरम्परायाः स्मारकस्थानरूपेण घोषणार्थम् आवेदनं कृतम् अस्ति । अतः एषः प्रदेशः सप्तधा विभक्तः अस्ति ।
• अगस्त्यमलै उपविभागः ।
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्