"कृपः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
किञ्चित्कालानन्तरं शरद्वान् शन्तनोः समीपम् आगत्य तौ बालौ स्वस्य एव इत्युक्त्वा कृपाय उपनयनसंस्कारं कृत्वा [[धनुर्विद्या]]रहस्यम् उपदिश्य तम् अस्त्रविद्याविशारदं कृतवान् । अनन्तरं कृपाचार्यः पाण्डवानां, कौरवाणां च धनुर्विद्यागुरुः आसीत् । एषः रुद्रगणांशसम्भूतः । शन्तनोः अनन्तरमपि [[भीष्मः|भीष्म]]स्य आश्रये स्थित्वा पाण्डवेषु अभिमानभरितः चेदपि भीष्मः इव कौरवपक्षे आसीत् । उत्तरगोग्रहणसन्दर्भे कर्णं बहु निन्दयति । भारतयुद्धे कौरवाणां पक्षतः युद्धं कृत्वा [[अर्जुनः|अर्जुनात्]] पराजयं प्राप्तवान् । एषः अर्जुनस्य श्लाघनं कृतवान् । <br />
द्रोणस्य मरणानन्तरं [[दुर्योधनः]] कर्णाय सेनाधिपतेः दायित्वं दत्तवान् । तदा कृपः सेनाधिपतिः भवितुम् अश्वत्थामा एव योग्यः, कर्णस्य सा योग्यता नास्ति इति यदा कर्णस्य तिरस्कारं करोति तदा [[कर्णः]] एतस्य जिह्वाकर्तनस्य प्रतिज्ञां कृतवान् । पाण्डवसेनाधिपतिं धृष्टद्युम्नं युद्धे जितवान् । भारतयुद्धस्य १८ दिने दुर्योधनस्य मरणानन्तरम् [[अश्वत्थामा]] रात्रौ पाण्डवानां शिबिरं गत्वा तान् यदा मारयति तदा एषः अश्वत्थामानं बहुबुद्धिवादं वदति । महाभारतस्य युद्धानन्तरं कौरवसेनासु अवशिष्टेषु त्रिषु एषः अन्यतमः । कृतवर्मा, अश्वत्थामा, कृपः च । [[युधिष्ठिरः|युधिष्ठिरस्य]] राज्याभिषेकस्य अनन्तरमपि एषः पाण्डवानाम् आश्रये आसीत् । शरद्वतः पुत्रः इति कारणेन एतं शारद्वत इति, गौतमवंशस्थः इति कारणेन [[गौतमः]] इत्यपि एतस्य नामानि सन्ति । एषः [[परीक्षितः|परीक्षित]]स्यापि अस्त्रविद्यायाः गुरुः आसीत् ।
 
{{महाभारतम्}}
 
[[वर्गः:महाभारतस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/कृपः" इत्यस्माद् प्रतिप्राप्तम्