"भीष्मः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ne:भीष्म
पङ्क्तिः २५:
 
श्रीकृष्णपरमात्मनः महिमाया:, प्रभावस्य च ज्ञानं यथा भीष्मस्य आसीत् तथा ज्ञानं अन्यस्य नासीत् । अर्थात् श्रीकृष्णं बहुन्यूना: जना: जानन्ति स्म । धृतराष्ट्रदुर्योधनेभ्य: भीष्म: बहुवारं श्रीकृष्णस्य माहात्म्यं सूचितवान् आसीत् । राजसूययज्ञे अग्रपूजायै [[श्रीकृष्ण:]] एव सर्वोत्तम: इति निर्णीय एष: पूर्णसभायां श्रीकृष्णस्य महिमाया: गुणगानं कृत्वा स: साक्षात् परमेश्वर: एव इति बुद्धिवादम् उक्तवान् आसीत् । यदा श्रीकृष्ण: चक्रं गृहीतवान् तदा भीष्म: परमात्मनः हस्तत: मरणं तु स्वस्य सौभाग्यम् इति मत्वा शस्त्रद्वारा पूजां कर्तुं तस्य आह्वानं कृतवान् । युधिष्ठिराय भीष्म: [[विष्णुसहस्रनाम]]स्तोत्रम् उक्तवान् । तत्र तु एतस्य भगवद्भक्ति: ज्ञानं च प्रवहति । तस्य भक्तिकारणत: एव तस्य अन्त्यकाले श्रीकृष्ण: तस्मै दर्शनं दत्वा तं कृतार्थं कृतवान् । एवं भक्तौ, ज्ञाने, सदाचारेषु एषः आदर्शप्राय: । प्रपञ्चस्य इतिहासे एतादृशा: जना: न्यूना: । भीष्मः: पुत्रहीन: चेदपि सर्वे त्रिवर्णीय हिन्दव: अपि पितृतर्पणकरणसमये एतस्मै अपि अर्घ्यम् अर्पयन्ति । एतादृश: गौरव: भारतस्य इतिहासे अन्यस्य कस्यापि नास्ति । पूर्णं जगत् अद्यापि एतं पितामह: इति आह्वयति । भीष्मसदृशस्य पुत्रहीनस्य सौभाग्यं तु पुत्रवताम् अपि असूयां जनयति ।
 
{{महाभारतम्}}
 
[[वर्गः: महाभारतस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/भीष्मः" इत्यस्माद् प्रतिप्राप्तम्