"भारविः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रो भारविः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।
==बाह्यसम्पर्कतन्तुः== भारविः==बाह्यसम्पर्कतन्तुः== भारविः==परिचयः==
==परिचयः==
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् ।
'[[किरातार्जुनीयं]]' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।
पङ्क्तिः ९:
अयं पुलकेशिनो द्वितीयस्य ६३४ ई. सामयिकः शिलालेखः, अतो भारविस्तत्पूर्वतनः सम्भवति । किञ्च काशिकावृत्तौ भारवे काव्यमुदाहृतं दृश्यते । अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं भारवेः प्रसिध्दिरजायतेति तर्कयितुं शक्यते ।
अतः भारवेः समयः षष्ठेशवीयशतकं मन्तुं युज्यते । भारवेः किरातार्जुनीयम् शिवार्जुनयुध्दमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबध्देऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् । द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पत्न्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपध्दतिं ज्ञातमेकं वनेचरं गुप्तचररुपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णं शासनपध्दतिं युधिष्ठिराय निवेदयामस । भीमद्रौपद्यौ युधिष्टिरं बहूत्तेजयामासतुः परं प्रतिज्ञामुल्लङ्घ्य युधिष्ठरो युध्दार्थं न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । स पाशुपतास्त्रमासादयितुमर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रयासा अभवत् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमादायागतः । मायावी शुकरोऽर्जुनस्याश्रमपार्श्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शूकरे बाणं प्रचिक्षिपतुः । इदमेव युध्दकारणमजायत । युदध्यमानयोः किरातार्जुनयोर्गाण्डीवी भुजाभ्यामाजध्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपराक्रमदर्शनतुष्टः शिवोऽर्जुनाय पाशुतास्त्रं ददौ ।
भारविः
 
==भारवेः काव्यशैली==
"https://sa.wikipedia.org/wiki/भारविः" इत्यस्माद् प्रतिप्राप्तम्