"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding lv:Pudučerri
No edit summary
पङ्क्तिः १:
[[File:Puducherry in India (disputed hatched).svg|thumb|]]
'''पाण्डीचेरी''' (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) [[भारत|भारतस्य]] कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सेप्टेम्बर्मासे अस्य नाम '''पुदुचेरी''' इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति ।
 
पुदुचेर्यां चत्वारः असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, करैकल्, यनाम्, महे च । पाण्डीचेरी करैकाल् च तमिळुनाडुराज्यस्य भूभागे विद्यतः । यानम् आन्ध्रप्रदेशे माहे केरलभूभागे च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितम्, करैकाल् १६० च कि मी मितम्, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डलं १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।
 
[[File:A sunset at mahi beach.jpg|thumb|माहेसमुद्रतीरम्]]
==इतिहासः==
 
पुदिचेर्याः इतिहासः २ शतकात् लभ्यते । द्वितीयशतकस्य आदिमभागे रचिते पेरिप्लस् आफ् दि एरिथ्रीन् सी (प्राचीनः ग्रीकग्रन्थः)ग्रन्थे '''पोदुकु''' नामिका विपणिः उल्लिख्यते (६० अध्यायः) । इदम् आधुनिकपुदुचेरीतः २ मैल्दूरे विद्यमानम् अरिकमेडु (अधुना अरियङ्कुप्पमस्य भागः) स्यात् इति ऊह्यते हण्टिङ्ग्फोर्डेन । अस्मिन् अरिकमेडुप्रदेशे १९३७ तमे वर्षे रोमन्-कुम्भनिर्माणकार्यं (पाटरि) दृष्टम् । १९४४ तः १९४९ पर्यन्तं जातैः पुरातत्त्वशोधनैः ज्ञातं यत् 'इदं वाणिज्यक्षेत्रम् आसीत् यत्र रोमन्देशस्य वस्तूनां वाणिज्यं प्रचलति स्म प्रथमदशकस्य अग्रिमार्धभागे इति ।
==फ्रेञ्च्-प्रभावः==
 
अद्यत्वे अपि पुदुचेर्यां फ्रेञ्च्-प्रभावः दृष्टिगोचरः भवति । पुदुचेर्याः विन्यासः फ्रेञ्च्-विन्यासवत् विद्यते । मार्गाः अधोलम्बाः विद्यन्ते । नगरं द्विधा विभक्तं - फ्रेञ्च्-भागः (श्वेतनगरम्) भारतभागः (कृष्णनगरम्) च । बहूनां मार्गाणां नामानि फ्रेञ्च्-नामानि एव सन्ति । गृहाणि अपि फ्रेञ्च्-विन्यासयुक्तानि एव । फ्रेञ्च्-भागे भवनानि दीर्घप्राङ्गणयुक्तानि शोभायुताभिः भित्तिभिः युक्तानि च । भारतभागे गृहाणि वितर्दिभिः युक्तानि महाद्वारैः युक्तानि भवन्ति । 'इन्टाख्' (INTACH) संस्थया फ्रेञ्च्-शैलीयानि भारतशैलीयानि भवनानि अभिज्ञाय तेषां रक्षणं क्रियते । फ्रेञ्च्-भाषायाः उपयोगः अद्यत्वे अपि पुदुचेर्यां दृश्यते ।
 
१९५४ तमे वर्षे पाण्डीचेरी भारतं प्रति यदा हस्तान्तरितं तदा तत्रत्याः जनाः भारतीयपौराः भवितुं फ्रेञ्च्-पौरत्वं रक्षितुं वा स्वतन्त्राः आसन् । अतः अद्यत्वे अपि अत्र केचन दृश्यन्ते ये फ्रेञ्च्पौराः । फ्रेञ्च्-सांस्कृतिकसंस्थाः बहवः सन्ति । फ्रेञ्च्-युद्धेषु भागम् ऊढानां सैनिकानां कृते स्मारकमन्दिरं निर्मितम् अस्ति । फ्रेञ्च्-माध्यमविद्यालयः अपि अत्र विद्यते ।
 
==सर्वकारस्य आधिकारिकभाषाः==
[[File:Pondicherry map.png|thumb|पाण्डीचेरी-केन्द्रशासितप्रदेशः]]
पुदुचेर्याः आधिकारिकाः भाषाः नाम तमिळु (८९%), मलयालम् (३.८%), तेलुगु (२.९% यानम्), फ्रेञ्च् (१%) । प्रत्येकस्मिन् मण्डले भाषास्थितिः परिवर्त्यते । मण्डलानां परस्परसम्पर्काय आङ्ग्लभाषा उपयुज्यते । पाण्डीचेरी-करैकाल्-मण्डलाभ्यां सह व्यवहारावसरे तमिळुभाषा उपयुज्यते । पाण्डिचेरी, करीकाल्, यानं मण्डलेषु तेलुगुभाषा अधिकतया उपयुज्यते । माहे, पाण्डीचेरीप्रदेशयोः मलयालभाषा उपयुज्यते ।
 
पुदुचेर्यां फ्रेञ्च्-भाषा अपि आधिकारिकभाषा वर्तते ।१६७३ तः १९५४ पर्यन्तं फ्रेञ्च्-भारते इयमेव भाषा आधिकारिकभाषा आसीत् । सा रक्षिता अस्ति अद्यत्वे अपि ।
 
==सर्वकारः प्रशासनञ्च==
[[File:Pondicherry Legislative Assembly.jpg|150px|thumb|right|पुदुचेरीविधानसभा]]
पुदुचेरी पृथक्-राज्यं न । केन्द्रशासितप्रदेशः इत्यतः नवदेहल्याः शासने अन्तर्भवति । तथापि देहली-पुदुचेरी इत्येतयोः केन्द्रशासितप्रदेशयोः विधानसभासदस्यानां निर्वाचनाधिकारः विद्यते । केषुचित् विषयेषु स्वयं नियमानाम् अन्वये अपि स्वातन्त्र्यं विद्यते ।
केन्द्रस्य अध्यक्षः राजनिवासे तिष्ठति यत्र पूर्वतनः फ्रेञ्च्-अध्यक्षः आसीत् । अस्य प्रदेशस्य आर्थिकाभिवृद्धौ केन्द्रसर्वकारस्य पूर्णसहभागः विद्यते ।
==आर्थिकता==
 
मत्स्योद्यमः अत्र प्रमुखः । चतुर्षु मण्डलेषु ४५ कि मी मितः तीरप्रदेशः विद्यते । अस्मिन् २७ जलोद्भव-मत्स्योद्यमग्रामाः २३ देशीय-मत्स्योद्यमग्रामाः । धीवराणां सङ्ख्या ६५,००० तेषु १३,००० सक्रियाः सर्वदा । आर्थिकाभिवृद्धेः वेगस्य अन्यः हेतुः नाम रैल्व्यवस्था ।
==प्रेक्षणीयानि स्थानानि==
:प्रोमेनेड्-समुद्रतीरम्
:आरोविल्ले
:अरविन्दाश्रमः
:चुन्नम्बार् नौकागृहम्
:भारती-उद्यानम्
:सङ्ग्रहालयः
:रोमैन् रोलाण्ड् ग्रन्थालयः
:बोटानिकल् गार्डन्
:आङ्ग्लो-फ्रेञ्च् वस्त्रनिर्माणी
:पाण्डीचेरी सङ्ग्रहालयः
:पारडैस्-समुद्रतीरम्
:श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
:मनकुल विनयगर् देवालयः
:सितानन्धार् देवालयः
:वन्निय पेरुमाल् देवालयः
:ओसुडुकासारः
:आरोविल्ले-समुद्रतीरम्
:फ्रेञ्च्-सांस्कृतिकभवनानि, अरविन्दाश्रममार्गाः
:लैट्-हौस्-समुद्रतीरम्
:नेहरुमार्गः-सदा विक्रयणम्
:सण्डे-विपणिः, मार्गापणाः- भानुवासरमात्रम्
==पूजास्थानानि==
[[File:Thirunallar Dharbaranyeeswarar Temple and Tank.jpg|thumb|तिरुनल्लार् धर्बारन्यीश्वरदेवालयः]]
 
:मनकुल विनयगार् देवालयः
:श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
:कामाक्षी अम्मन् देवालयः
:नवग्रहदेवालयः (१५ पादोन्नताः नवग्रहाः)
:पञ्चवटी
:श्री प्रीत्यिङ्गर देवी मन्दिरम्
:शनीश्वरदेवालयः, तिरुनल्लार्
:वरदराज पेरुमाल् देवालयः
:वेदपुरीश्वरदेवालयः
:इम्याक्युलाट् कन्सेप्शन् केथेड्रल्
:सेक्रेड् हार्ट् चर्च्
:जुम्मा मस्जिद्
:इरुम्बै माहलेश्वरदेवालयः
:सेङ्गझुनीर् अम्मन् देवालयः
:अवर् लेडी आफ् लोर्ड्स् चर्च्, विल्लिनूर्
:सिङ्गगिरिदेवालयः, अभिषेगपक्कम्
==बाह्यशृङ्खला==
*[http://www.pon.nic.in/ Official website of the Government of the Union Territory of Pondicherry]
*[http://www.links.jstor.org/sici?sici=0362-8949(19500322)19%3A6%3C62%3ATFOFI%3E2.0.CO%3B2-%23 Future of French India, by Russel H. Fifield (Associate Professor of Political Science at University of Michigan]
*[http://www.pon.nic.in/open/regions/pondy/origin.htm Puducherry – its Early Origins]
*[http://pib.nic.in/feature/feyr98/fe0898/f1808986.html Freedom struggle in Pondicherry]
*[http://meaindia.nic.in/treatiesagreement/1956/chap133.htm Indian Ministry for External Affaires – 1956 Treaty of Cession]
*[http://asi.nic.in/index3.asp?sublink2id=24 Exploration Off Arikamedu by Archaeological Survey of India]
*[http://about-pondicherry.blogspot.com About Pondicherry]
 
 
[[वर्गः:भारतस्य केन्द्रशासितप्रदेशाः]]
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्