"रावणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
कालक्रमेण रावणः लङ्कायाः राजनं कुबेरं कूटेन लङ्कां त्यक्तुं विवशम् अकरोत् । पश्चात् रावणः राजा भूत्वा सहोदरैः सह लङ्कायां न्यवसत् । लङ्काधिकारप्राप्तेः पश्चात् शूर्पणखायाः विवाहं दानवराजेन विद्युविह्वा इत्यनेन सह कृतवान् । रावणः स्वयं दितिपुत्रस्य मयस्य कन्यां [[मन्दोदरी|मन्दोरीं]] परिणितवान् । विरोचनस्य पुत्रस्य बलेः कन्यां वज्रज्वलां कुम्भकर्णः परिणीतवान् । गन्धर्वरजस्य शैलूषस्य कन्यया सरमया सह विभीषणस्य विवाहः अभवत् । कालक्रमेण मन्दोदरी [[मेघनादः]] इति पुत्रम् असूत यः कालक्रमेण इन्द्रं विजित्य इन्द्रजित् इति नाम प्राप्तवान् ।
 
==शङ्करेण दशाननगर्वभङ्गः=
==रावणेन शङ्करप्रार्थना==
अधिकारम्देन रावणः देवतेभ्यः ऋषिभ्यः यक्षेभ्यः गन्धर्वेभ्यः च विविधाः पीडाः दातुम् आरब्धवान् । कदाचित् कुबेरम् आक्रम्य युद्धे पराजितम् अकरोत् । स्वस्य विजयस्य प्रतीकरूपेण कुबेरस्य मनोवेगगमनं पुष्पकविमानं बलात्कारेण स्वीकृतवान् । पुष्पकविमानम् उपविष्टजनानाम् इच्छानुगुणं लघु अथवा बृहत् भवति स्म । एतादृशे विमाने कदाचित् रावणः शरवणः इति प्रसिद्धवनस्य उपरि सञ्चरन् आसीत् । तदा भगवतः शिवस्य वाहनं नन्दीश्वरः रावणम् अवरुध्य अवदत् । हे दशग्रीव अस्मिन् वने विद्यमाने पर्वते भवान् शङ्करः क्रीडति । अत्र सुरासुरयक्षादीनाम् आगमनं निषिद्धम् । नन्दीश्वरस्य वचांसि श्रुत्वा क्रुद्धः रावणः विमानात् अवतीर्य शङ्करस्य निकटम् अगच्छत् । तं निवारयितुं नन्दीश्वरः हस्ते त्रिशूलं धृत्वा द्वितीयः शिवः इव पुरतः अतिष्ठत् । तस्य मुखं वाननः इव अस्ति इति दृष्ट्वा रावणः अट्टहासम् अकरोत् । अनेन परिहासेन कुपितः [[नन्दी]] 'मम वानरमुखस्य अवहेलनं कृतवतः भवतः नाशम् अपि मादृशः पराक्रमी महाकपिः एव करिष्यति इति ' रावणम् अशपत् । नन्देः वचनम् अवगणयन् रावणः अवदत् । यः पर्वतः मम विमानप्रवासे विघ्नं करोति तं छेदयामि । इति वदन् रावणः पर्वतस्य मूले हस्तं स्थापयित्वा उन्नेतुं प्रयत्नम् अकरोत् । यदा पर्वतः कम्पयितुम् अरब्धः तदा उपरि उपविष्टः पर्मेश्वरः स्वपादाङ्गुष्टेन पर्वतं निपीडितवान् । अनेन रावणस्य करः अपलपितम् । रावणः उच्चैराक्रोशत् । कथञ्चिदपि सः हस्तं पर्वतछेदात् परित्रातुं न शक्तवान् । तदा क्रन्दन् एव रावणः शिवस्य स्तुतिं कुर्वन् क्षमाप्रार्थनां कृतवान् । तदारभ्य एव स्य दशाननस्य रावणः इति नाम आगतम् । शङ्करः तस्मै क्षमां दत्वा तस्य प्रार्थनानुगुणं चन्द्रहासः इति खड्गं वररूपेण अनुग्रहीतवान् ।
 
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्