"रावणः" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः २६:
==रावणस्य गुणाः==
रावणः दुष्टस्वभायुतः राक्षसः किन्तु तस्मिन् केचन गुणाः अपि सन्ति । एषः बुद्धिमान् पूजानुष्टानिरतः ब्राह्मणः शङ्करस्य परमभक्तः । तेजस्वी प्रतापी पराक्रमी, रूपवान् विद्वान् च इति वाल्मीकिः अस्य निष्पक्षपातेन अस्य गुणान् अपि वर्णितवान् । वेदचतुष्टयस्य विख्यातः ज्ञानी, महाविद्वान् इति रामायणे रावणस्य सभायां [[हनूमान्|हनूमतः]] प्रवेशावसरे उक्तवान् । यथा...
अहो रूपमहो धैर्यमहोत्सवमहो द्युति:।<br />
अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥
प्रथमवारं रामः रावणं दृष्ट्वा मन्त्रमुग्धः भूत्वा अवदत् रूपेन सौन्दर्येण, कान्त्या, धैर्येण, सर्वलक्षणेनयुक्ते रावणे यदि अधर्मः बलवान् न भवति चेत् एषः स्वर्गाधिपतिः भवति स्म इति । यत्र रावणः दुष्टः पापी चासीत् तत्र एव तस्य शिष्टाचारः आदर्शाः गौरवं चासीत् । रामस्य वियोगेन दुःखितां सीतां रावणः एवम् अवदत् । हे सीते यदि भवत्यै मयि कामभावः नास्ति तर्हि अहं भवत्याः स्पर्शम् अपि न करोमि । शास्त्रानुसारं वन्ध्या, रजस्वला. अकामा, आद्यः स्त्रियः अस्पश्याः । एवं सीताम् अस्पश्य रावणः गौर्ववस्य मर्यादां नातिक्रान्तवान् । वाल्मीकिरामायणे रामचरितमानसे च द्वयोः ग्रन्थयोः रावणस्य महत्वं रक्षितम् । राक्षसी मातुः ब्रह्मणः पिता इति कारणेण परस्परविरोधगुणाः तस्मिन् सहजतया आसन् इति ।
==रावणस्य अवगुणाः==
[[File:Killing of Rawana Painting by Balasaheb Pant Pratinidhi.jpg|thumb|Killing of Rawana Painting by Balasaheb Pant Pratinidhi]]
|